Mantra with Swara
अ॒स्माक॑मिन्द्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑। स॒यावा॑नं॒ धने॑धने वाज॒यन्त॑मवा॒ रथ॑म् ॥७॥
अ॒स्माक॑म् । इ॒न्द्र॒ । दु॒स्तर॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ । स॒ऽयावा॑नम् । धने॑ऽधने । वा॒ज॒ऽयन्त॑म् । अ॒व॒ । रथ॑म् ॥
Mantra without Swara
अस्माकमिन्द्र दुष्टरं पुरोयावानमाजिषु। सयावानं धनेधने वाजयन्तमवा रथम् ॥
अस्माकम्। इन्द्र। दुस्तरम्। पुरःऽयावानम्। आजिषु। सऽयावानम्। धनेऽधने। वाजऽयन्तम्। अव। रथम् ॥७॥
Ashtak » 4
Adhyay » 2
Varga » 6
Mantra » 2
