Mantra with Swara
वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑। स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमि॑न्द्र॒ पौंस्य॑म् ॥४॥
वृषा॑ । हि । असि॑ । राध॑से । ज॒ज्ञि॒षे । वृष्णि॑ । ते॒ । शवः॑ । स्वऽक्ष॑त्रम् । ते॒ । धृ॒षम् । मनः॑ । स॒त्रा॒ऽहम् । इ॒न्द्र॒ । पौंस्य॑म् ॥
Mantra without Swara
वृषा ह्यसि राधसे जज्ञिषे वृष्णि ते शवः। स्वक्षत्रं ते धृषन्मनः सत्राहमिन्द्र पौंस्यम् ॥
वृषा। हि। असि। राधसे। जज्ञिषे। वृष्णि। ते। शवः। स्वक्षत्रम्। ते। धृषत्। मनः। सत्राऽहम्। इन्द्र। पौंस्यम् ॥४॥
Ashtak » 4
Adhyay » 2
Varga » 5
Mantra » 4
