Mantra 1
अजा॑तशत्रुम॒जरा॒ स्व॑र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी॑यते। सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन ॥१॥
अजा॑तऽशत्रुम् । अ॒जरा॑ । स्वः॑ऽवती । अनु॑ । स्व॒धा । अमि॑ता । द॒स्मम् । ई॒य॒ते॒ । सु॒नोत॑न । पच॑त । ब्रह्म॑ऽवाहसे । पु॒रु॒ऽस्तु॒ताय॑ । प्र॒ऽत॒रम् । द॒धा॒त॒न॒ ॥
Mantra 2
आ यः सोमे॑न ज॒ठर॒मपि॑प्र॒ताम॑न्दत म॒घवा॒ मध्वो॒ अन्ध॑सः। यदीं॑ मृ॒गाय॒ हन्त॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना॑ व॒धं यम॑त् ॥२॥
आ । यः । सोमे॑न । ज॒ठर॑म् । अपि॑प्रत । अम॑न्दत । म॒घऽवा॑ । मध्वः॑ । अन्ध॑सः । यत् । ई॒म् । मृ॒गाय॑ । हन्त॑वे । म॒हाऽव॑धः । स॒हस्र॑ऽभृष्टिम् । उ॒शना॑ । व॒धम् । यम॑त् ॥
Mantra 3
यो अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं॑ सु॒नोति॒ भव॑ति द्यु॒माँ अह॑। अपा॑प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ॥३॥
यः । अ॒स्मै॒ । घ्रं॒से । उ॒त । वा॒ । यः । ऊध॑नि । सोम॑म् । सु॒नोति॑ । भव॑ति । द्यु॒ऽमान् । अह॑ । अप॑ऽअप । स॒क्रः । त॒त॒नुष्टि॑म् । ऊ॒ह॒ति॒ । त॒नूऽशु॑भ्रम् । म॒घऽवा॑ । यः । क॒व॒ऽस॒खः ॥
Mantra 4
यस्याव॑धीत्पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते। वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ॥४॥
यस्य॑ । अव॑धीत् । पि॒तर॑म् । यस्य॑ । मा॒तर॑म् । यस्य॑ । श॒क्रोअः । भ्रात॑रम् । न । अतः॑ । ई॒ष॒ते॒ । वेति॑ । इत् । ऊँ॒ इति॑ । अ॒स्य॒ । प्रऽय॑ता । य॒त॒म्ऽक॒रः । न । किल्बि॑षात् । ई॒ष॒ते॒ । वस्वः॑ । आ॒ऽक॒रः ॥
Mantra 5
न प॒ञ्चभि॑र्द॒शभि॑र्वष्ट्या॒रभं॒ नासु॑न्वता सचते॒ पुष्य॑ता च॒न। जि॒नाति॒ वेद॑मु॒या हन्ति॑ वा॒ धुनि॒रा दे॑व॒युं भ॑जति॒ गोम॑ति व्र॒जे ॥५॥
न । प॒ञ्चऽभिः॑ । द॒शऽभिः॑ । व॒ष्टि॒ । आ॒ऽरभ॑म् । न । असु॑न्वता । स॒च॒ते॒ । पुष्य॑ता । च॒न । जि॒नाति॑ । वा॒ । इत् । अ॒मु॒या । हन्ति॑ । वा॒ । धुनिः॑ । आ । दे॒व॒ऽयुम् । भ॒ज॒ति॒ । गोऽम॑ति । व्र॒जे ॥
Mantra 6
वि॒त्वक्ष॑णः॒ समृ॑तौ चक्रमास॒जोऽसु॑न्वतो॒ विषु॑णः सुन्व॒तो वृ॒धः। इन्द्रो॒ विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒शं न॑यति॒ दास॒मार्यः॑ ॥६॥
वि॒ऽत्वक्ष॑णः । सम्ऽऋ॑तौ । च॒क्र॒म्ऽआ॒स॒जः । असु॑न्वतः । विषु॑णः । सु॒न्व॒तः । वृ॒धः । इन्द्रः॑ । विश्व॑स्य । द॒मि॒ता । वि॒ऽभीष॑णः । य॒था॒ऽव॒शम् । न॒य॒ति॒ । दास॑म् । आर्यः॑ ॥
Mantra 7
समीं॑ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे॑ भजति सू॒नरं॒ वसु॑। दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ॥७॥
सम् । ई॒म् । प॒णेः । अ॒ज॒ति॒ । भोज॑नम् । मु॒षे । वि । दा॒शुषे॑ । भ॒ज॒ति॒ । सू॒नर॑म् । वसु॑ । दुः॒ऽगे । च॒न । ध्रि॒य॒ते॒ । विश्वः॑ । आ । पु॒रु । जनः॑ । यः । अ॒स्य॒ । तवि॑षीम् । अचु॑क्रुधत् ॥
Mantra 8
सं यज्जनौ॑ सु॒धनौ॑ वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो॑ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑। युजं॒ ह्य१॒॑न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं॑ सृजते॒ सत्व॑भि॒र्धुनिः॑ ॥८॥
सम् । यत् । जनौ॑ । सु॒ऽधनौ॑ । वि॒श्वऽश॑र्धसौ । अवे॑त् । इन्द्रः॑ । म॒घऽवा॑ । गोषु॑ । शु॒भ्रिषु॑ । युज॑म् । हि । अ॒न्यम् । अकृ॑त । प्र॒ऽवे॒प॒नी । उत् । ई॒म् । गव्य॑म् । सृ॒ज॒ते॒ । सत्व॑ऽभिः । धुनिः॑ ॥
Mantra 9
स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः। तस्मा॒ आपः॑ सं॒यतः॑ पीपयन्त॒ तस्मि॑न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ॥९॥
स॒ह॒स्र॒ऽसाम् । आग्नि॑ऽवेशिम् । गृ॒णी॒षे॒ । शत्रि॑म् । अ॒ग्ने॒ । उ॒प॒ऽमाम् । के॒तुम् । अ॒र्यः । तस्मै॑ । आपः॑ । स॒म्ऽयतः॑ । पी॒प॒य॒न्त॒ । तस्मि॑न् । क्ष॒त्रम् । अम॑ऽवत् । त्वे॒षम् । अ॒स्तु॒ ॥