Mantra with Swara
इन्द्रा॑ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य॑म्। क्ष॒त्रं धा॑रयतं बृ॒हद्दि॒वि सूर्य॑मिवा॒जर॑म् ॥६॥
इन्द्रा॑ग्नी॒ इति॑ । श॒त॒ऽदाव्नि॑ । अश्व॑ऽमेधे । सु॒ऽवीर्य॑म् । क्ष॒त्रम् । धा॒र॒य॒त॒म् । बृ॒हत् । दि॒वि । सूर्य॑म्ऽइव । अ॒जर॑म् ॥
Mantra without Swara
इन्द्राग्नी शतदाव्न्यश्वमेधे सुवीर्यम्। क्षत्रं धारयतं बृहद्दिवि सूर्यमिवाजरम् ॥
इन्द्राग्नी इति। शतऽदाव्नि। अश्वऽमेधे। सुऽवीर्यम्। क्षत्रम्। धारयतम्। बृहत्। दिवि। सूर्यम्ऽइव। अजरम् ॥६॥
Ashtak » 4
Adhyay » 1
Varga » 21
Mantra » 6
