Mantra with Swara
अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्मन्य॑से। तं नाकं॑ चि॒त्रशो॑चिषं म॒न्द्रं प॒रो म॑नी॒षया॑ ॥२॥
अस्य॑ । हि । स्वय॑शःऽतरः । आ॒सा । वि॒ऽध॒र्म॒न् । मन्य॑से । तम् । नाक॑म् । चि॒त्रऽशो॑चिषम् । म॒न्द्रम् । प॒रः । म॒नी॒षया॑ ॥
Mantra without Swara
अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे। तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया ॥
अस्य। हि। स्वयशःतरः। आसा। विऽधर्मन्। मन्यसे। तम्। नाकम्। चित्रऽशोचिषम्। मन्द्रम्। परः। मनीषया ॥२॥
Ashtak » 4
Adhyay » 1
Varga » 9
Mantra » 2
