Mantra with Swara
अं॒हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद्दु॒ष्टरं॑ पू॒र्व्याय॑। स सं॒वतो॒ नव॑जातस्तुतुर्यात्सिं॒हं न क्रु॒द्धम॒भितः॒ परि॑ ष्ठुः ॥३॥
अं॒हः॒ऽयुवः॑ । त॒न्वः॑ । त॒न्व॒ते॒ । वि । वयः॑ । म॒हत् । दु॒स्तर॑म् । पू॒र्व्याय॑ । सः । स॒म्ऽवतः॑ । नव॑ऽजातः । तु॒तु॒र्या॒त् । सिं॒हम् । न । क्रु॒द्धम् । अ॒भितः॑ । परि॑ । स्थुः ॥
Mantra without Swara
अंहोयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय। स संवतो नवजातस्तुतुर्यात्सिंहं न क्रुद्धमभितः परि ष्ठुः ॥
अंहःऽयुवः। तन्वः। तन्वते। वि। वयः। महत्। दुस्तरम्। पूर्व्याय। सः। सम्ऽवतः। नवऽजातः। तुतुर्यात्। सिंहम्। न। क्रुद्धम्। अभितः। परि। स्थुः ॥३॥
Ashtak » 4
Adhyay » 1
Varga » 7
Mantra » 3
