Mantra with Swara
असं॑मृष्टो जायसे मा॒त्रोः शुचि॑र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः। घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ॥३॥
अस॑म्ऽमृष्टः । जा॒य॒से॒ । मा॒त्रोः । शुचिः॑ । म॒न्द्रः । क॒विः । उत् । अ॒ति॒ष्ठः॒ । वि॒वस्व॑तः । घृ॒तेन॑ । त्वा॒ । अ॒व॒र्ध॒य॒न् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ । धू॒मः । ते॒ । के॒तुः । अ॒भ॒व॒त् । दि॒वि । शृइ॒तः ॥
Mantra without Swara
असंमृष्टो जायसे मात्रोः शुचिर्मन्द्रः कविरुदतिष्ठो विवस्वतः। घृतेन त्वावर्धयन्नग्न आहुत धूमस्ते केतुरभवद्दिवि श्रितः ॥
असंऽमृष्टः। जायसे। मात्रोः। शुचिः। मन्द्रः। कविः। उत्। अतिष्ठः। विवस्वतः। घृतेन। त्वा। अवर्धयन्। अग्ने। आऽहुत। धूमः। ते। केतुः। अभवत्। दिवि। श्रितः ॥३॥
Ashtak » 4
Adhyay » 1
Varga » 3
Mantra » 3
