Mantra with Swara
य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी॑धिरे। इन्द्रे॑ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ॥२॥
य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । अ॒ग्निम् । नरः॑ । त्रि॒ऽस॒ध॒स्थे । सम् । ई॒धि॒रे॒ । इन्द्रे॑ण । दे॒वैः । स॒रथ॑म् । सः । ब॒र्हिषि॑ । सीद॑त् । नि । होता॑ । य॒जथा॑य । सु॒ऽक्रतुः॑ ॥
Mantra without Swara
यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे। इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥
यज्ञस्य। केतुम्। प्रथमम्। पुरःऽहितम्। अग्निम्। नरः। त्रिऽसधस्थे। सम्। ईधिरे। इन्द्रेण। देवैः। सऽरथम्। सः। बर्हिषि। सीदत्। नि। होता। यजथाय। सुऽक्रतुः ॥२॥
Ashtak » 4
Adhyay » 1
Varga » 3
Mantra » 2
