Mantra with Swara
आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे। प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥३॥
आ । अ॒प्राः॒ । रजां॑सि । दि॒व्यानि॑ । पार्थि॑वा । श्लोक॑म् । दे॒वः । कृ॒णु॒ते॒ । स्वाय॑ । धर्म॑णे । प्र । बा॒हू इति॑ । अ॒स्रा॒क् । स॒वि॒ता । सवी॑मनि । नि॒ऽवे॒शय॑न् । प्र॒ऽसु॒वन् । अ॒क्तुऽभिः॑ । जग॑त् ॥
Mantra without Swara
आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे। प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥
आ। अप्राः। रजांसि। दिव्यानि। पार्थिवा। श्लोकम्। देवः। कृणुते। स्वाय। धर्मणे। प्र। बाहू इति। अस्राक्। सविता। सवीमनि। निऽवेशयन्। प्रऽसुवन्। अक्तुऽभिः। जगत् ॥३॥
Ashtak » 3
Adhyay » 8
Varga » 4
Mantra » 3
