Mantra with Swara
अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते॑ वि॒श्वपे॑शसा। वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥३॥
अनु॑ । कृ॒ष्णे । वसु॑धिती॒ इति॒ वसु॑ऽधिती । ये॒माते॒ इति॑ । वि॒श्वऽपे॑शसा । वायो॒ इति॑ । आ । च॒न्द्रेणे॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥
Mantra without Swara
अनु कृष्णे वसुधिती येमाते विश्वपेशसा। वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥
अनु। कृष्णे। इति। वसुधिती इति वसुऽधिती। येमाते इति। विश्वऽपेशसा। वायो इति। आ। चन्द्रेण। रथेन। याहि। सुतस्य। पीतये ॥३॥
Ashtak » 3
Adhyay » 7
Varga » 24
Mantra » 3
