Mantra 1
उ॒तो हि वां॑ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे। क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रम् ॥१॥
उ॒तो इति॑ । हि । वा॒म् । दा॒त्रा । सन्ति॑ । पूर्वा॑ । या । पू॒रुऽभ्यः॑ । त्र॒सद॑स्युः । नि॒ऽतो॒शे । क्षे॒त्र॒ऽसाम् । दा॒द॒थुः॒ । उ॒र्व॒रा॒ऽसाम् । घ॒नम् । दस्यु॑ऽभ्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् ॥
Mantra 2
उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम्। ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर॑म् ॥२॥
उ॒त । वा॒जिन॑म् । पु॒रु॒निः॒ऽसिध्वा॑नम् । द॒धि॒ऽक्राम् । ऊँ॒ इति॑ । द॒द॒थुः॒ । वि॒श्वऽकृ॑ष्टिम् । ऋ॒जि॒प्यम् । श्ये॒नम् । प्रु॒षि॒तऽप्सु॑म् । आ॒शुम् । च॒र्कृत्य॑म् । अ॒र्यः । नृ॒ऽपति॑म् । न । शूर॑म् ॥
Mantra 3
यं सी॒मनु॑ प्र॒वते॑व॒ द्रव॑न्तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः। प॒ड्भिर्गृध्य॑न्तं मेध॒युं न शूरं॑ रथ॒तुरं॒ वात॑मिव॒ ध्रज॑न्तम् ॥३॥
यम् । सी॒म् । अनु॑ । प्र॒वता॑ऽइव । द्रव॑न्तम् । विश्वः॑ । पू॒रुः । मद॑ति । हर्ष॑माणः । प॒ट्ऽभिः । गृध्य॑न्तम् । मे॒ध॒ऽयुम् । न । शूर॑म् । र॒थ॒ऽतुर॑म् । वात॑म्ऽइव । ध्रज॑न्तम् ॥
Mantra 4
यः स्मा॑रुन्धा॒नो गध्या॑ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न्। आ॒विर्ऋ॑जीको वि॒दथा॑ नि॒चिक्य॑त्ति॒रो अ॑र॒तिं पर्याप॑ आ॒योः ॥४॥
यः । स्म॒ । आ॒ऽरु॒न्धा॒नः । गध्या॑ । स॒मत्ऽसु॑ । सनु॑ऽतरः । चर॑ति । गोषु॑ । गच्छ॑न् । आ॒विःऽऋ॑जीकः । वि॒दथा॑ । नि॒ऽचिक्य॑त् । ति॒रः । अ॒र॒तिम् । परि॑ । आपः॑ । आ॒योः ॥
Mantra 5
उ॒त स्मै॑नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे॑षु। नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा॑ पशु॒मच्च॑ यू॒थम् ॥४॥
उ॒त । स्म॒ । ए॒न॒म् । व॒स्त्र॒ऽमथि॑म् । न । ता॒युम् । अनु॑ । क्रो॒श॒न्ति॒ । क्षि॒तयः॑ । भरे॑षु । नी॒चा । अय॑मानम् । जसु॑रिम् । न । श्ये॒नम् । श्रवः॑ । च॒ । अच्छ॑ । प॒शु॒ऽमत् । च॒ । यू॒थम् ॥
Mantra 6
उ॒त स्मा॑सु प्रथ॒मः स॑रि॒ष्यन्नि वे॑वेति॒ श्रेणि॑भी॒ रथा॑नाम्। स्रजं॑ कृण्वा॒नो जन्यो॒ न शुभ्वा॑ रे॒णुं रेरि॑हत्कि॒रणं॑ दद॒श्वान् ॥६॥
उ॒त । स्म॒ । आ॒सु । प्र॒थ॒मः । स॒रि॒ष्यन् । नि । वे॒वे॒ति॒ । श्रेणि॑ऽभिः । रथा॑नाम् । स्रज॑म् । कृ॒ण्वा॒नः । जन्यः॑ । न । शुभ्वा॑ । रे॒णुम् । रेरि॑हत् । कि॒रण॑म् । द॒द॒श्वान् ॥
Mantra 7
उ॒त स्य वा॒जी सहु॑रिर्ऋ॒तावा॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये। तुरं॑ य॒तीषु॑ तु॒रय॑न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृ॒ञ्जन् ॥७॥
उ॒त । स्यः । वा॒जी । सहु॑रिः । ऋ॒तऽवा॑ । शुश्रू॑षमाणः । त॒न्वा॑ । स॒ऽम॒र्ये । तुर॑म् । य॒तीषु॑ । तु॒रय॑न् । ऋ॒जि॒प्यः । अधि॑ । भ्रु॒वोः । कि॒र॒ते॒ । रे॒णुम् । ऋ॒ञ्जन् ॥
Mantra 8
उ॒त स्मा॑स्य तन्य॒तोरि॑व॒ द्योर्ऋ॑घाय॒तो अ॑भि॒युजो॑ भयन्ते। य॒दा स॒हस्र॑म॒भि षी॒मयो॑धीद्दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋ॒ञ्जन् ॥८॥
उ॒त । स्म॒ । अ॒स्य॒ । त॒न्य॒तोःऽइ॑व । द्योः । ऋ॒घा॒य॒तः । अ॒भि॒ऽयुजः॑ । भ॒य॒न्ते॒ । य॒दा । स॒हस्र॑म् । अ॒भि । सी॒म् । अयो॑धीत् । दुः॒ऽवर्तुः॑ । स्म॒ । भ॒व॒ति॒ । भी॒मः । ऋ॒ञ्जन् ॥
Mantra 9
उ॒त स्मा॑स्य पनयन्ति॒ जना॑ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू॑तिमा॒शोः। उ॒तैन॑माहुः समि॒थे वि॒यन्तः॒ परा॑ दधि॒क्रा अ॑सरत्स॒हस्रैः॑ ॥९॥
उ॒त । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । जनाः॑ । जू॒तिम् । कृ॒ष्टि॒ऽप्रः । अ॒भिऽभू॑तिम् । आ॒शोः । उ॒त । ए॒न॒म् । आ॒हुः॒ । स॒म्ऽइ॒थे । वि॒ऽयन्तः॑ । परा॑ । द॒धि॒ऽक्राः । अ॒स॒र॒त् । स॒हस्रैः॑ ॥
Mantra 10
आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑इव॒ ज्योति॑षा॒पस्त॑तान। स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां॑सि ॥१०॥
आ । द॒धि॒ऽक्राः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्यः॑ऽइव । ज्योति॑षा । अ॒पः । त॒ता॒न॒ । स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । वा॒जी । अर्वा॑ । पृ॒णक्तु॑ । मध्वा॑ । सम् । इ॒मा । वचां॑सि ॥