Mantra 1
ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो॑ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात। इ॒दा हि वो॑ धि॒षणा॑ दे॒व्यह्ना॒मधा॑त्पी॒तिं सं मदा॑ अग्मता वः ॥१॥
ऋ॒भुः । विऽभ्वा॑ । वाजः॑ । इन्द्रः॑ । नः॒ । अच्छ॑ । इ॒मम् । य॒ज्ञम् । र॒त्न॒ऽधेया॑ । उप॑ । यात । इ॒दा । हि । वः॒ । धि॒षणा॑ । दे॒वी । अह्वा॑म् । अधा॑त् । पी॒तिम् । सम् । मदाः॑ । अ॒ग्म॒त॒ । वः॒ ॥
Mantra 2
वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑र्ऋभवो मादयध्वम्। सं वो॒ मदा॒ अग्म॑त॒ सं पुरं॑धिः सु॒वीरा॑म॒स्मे र॒यिमेर॑यध्वम् ॥२॥
वि॒दा॒नासः॑ । जन्म॑नः । वा॒ज॒ऽर॒त्नाः॒ । उ॒त । ऋ॒तुऽभिः॑ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् । सम् । वः॒ । मदाः॑ । अग्म॑त । सम् । पुर॑म्ऽधिः । सु॒ऽवीरा॑म् । अ॒स्मे इति॑ । र॒यिम् । आ । ई॒र॒य॒ध्व॒म् ॥
Mantra 3
अ॒यं वो॑ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत्प्र॒दिवो॑ दधि॒ध्वे। प्र वोऽच्छा॑ जुजुषा॒णासो॑ अस्थु॒रभू॑त॒ विश्वे॑ अग्रि॒योत वा॑जाः ॥३॥
अ॒यम् । वः॒ । य॒ज्ञः । ऋ॒भ॒वः॒ । अ॒का॒रि॒ । यम् । आ । म॒नु॒ष्वत् । प्र॒ऽदिवः॑ । द॒धि॒ध्वे । प्र । वः॒ । अच्छ॑ । जु॒जु॒षा॒णासः॑ । अ॒स्थुः॒ । अभू॑त । विश्वे॑ । अ॒ग्रि॒या । उ॒त । वा॒जाः॒ ॥
Mantra 4
अभू॑दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या॑य। पिब॑त वाजा ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा॑य ॥४॥
अभू॑त् । ऊँ॒ इति॑ । वः॒ । वि॒ध॒ते । र॒त्न॒ऽधेय॑म् । इ॒दा । न॒रः॒ । दा॒शुषे॑ । मर्त्या॑य । पिब॑त । वा॒जाः॒ । ऋ॒भ॒वः॒ । द॒दे । वः॒ । महि॑ तृ॒तीय॑म् । सव॑नम् । मदा॑य ॥
Mantra 5
आ वा॑जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः। आ वः॑ पी॒तयो॑ऽभिपि॒त्वे अह्ना॑मि॒मा अस्तं॑ नव॒स्व॑इव ग्मन् ॥५॥
आ । वा॒जाः॒ । या॒त॒ । उप॑ । नः॒ । ऋ॒भु॒क्षाः॒ । म॒हः । न॒रः॒ । द्रवि॑णसः । गृ॒णा॒नाः । आ । वः॒ । पी॒तयः॑ । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् । इ॒माः । अस्त॑म् । न॒व॒स्वः॑ऽइव । ग्म॒न् ॥
Mantra 6
आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा॑नाः। स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्वः॑ पात रत्न॒धा इन्द्र॑वन्तः ॥६॥
आ । न॒पा॒तः॒ । श॒व॒सः॒ । या॒त॒न॒ । उप॑ । इ॒मम् । य॒ज्ञम् । नम॑सा । हू॒यमा॑नाः । स॒ऽजोष॑सः । सू॒र॒यः॒ । यस्य॑ । च॒ । स्थ । मध्वः॑ । पा॒त॒ । र॒त्न॒ऽधाः । इन्द्र॑ऽवन्तः ॥
Mantra 7
स॒जोषा॑ इन्द्र॒ वरु॑णेन॒ सोमं॑ स॒जोषाः॑ पाहि गिर्वणो म॒रुद्भिः॑। अ॒ग्रे॒पाभि॑र्ऋतु॒पाभिः॑ स॒जोषाः॒ ग्रास्पत्नी॑भी रत्न॒धाभिः॑ स॒जोषाः॑ ॥७॥
स॒ऽजोषाः॑ । इ॒न्द्र॒ । वरु॑णेन । सोम॑म् । स॒ऽजोषाः॑ । पा॒हि॒ । गि॒र्व॒णः॒ । म॒रुत्ऽभिः॑ । अ॒ग्रे॒ऽपाभिः॑ । ऋ॒तु॒ऽपाभिः॑ । स॒ऽजोषाः॑ । ग्नाःपत्नी॑भिः । र॒त्न॒ऽधाभिः॑ । स॒ऽजोषाः॑ ॥
Mantra 8
स॒जोष॑स आदि॒त्यैर्मा॑दयध्वं स॒जोष॑स ऋभवः॒ पर्व॑तेभिः। स॒जोष॑सो॒ दैव्ये॑ना सवि॒त्रा स॒जोष॑सः॒ सिन्धु॑भी रत्न॒धेभिः॑ ॥८॥
स॒ऽजोष॑सः । आ॒दि॒त्यैः । मा॒द॒य॒ध्व॒म् । स॒ऽजोष॑सः । ऋ॒भ॒वः॒ । पर्व॑तेभिः । स॒ऽजोष॑सः । दैव्ये॑न । स॒वि॒त्रा । स॒ऽजोष॑सः । सिन्धु॑ऽभिः । र॒त्न॒ऽधेभिः॑ ॥
Mantra 9
ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुर्ऋ॒भवो॒ ये अश्वा॑। ये अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नरः॑ स्वप॒त्यानि॑ च॒क्रुः ॥९॥
ये । अ॒स्विना॑ । ये । पि॒तरा॑ । ये । ऊ॒ती । धे॒नुम् । त॒त॒क्षुः । ऋ॒भवः॑ । ये । अश्वा॑ । ये । अंस॑त्रा । य ऋध॑क् । रोद॑सी॒ इति॑ । ये । विऽभ्वः॑ । नरः॑ । सु॒ऽअ॒प॒त्यानि॑ । च॒क्रुः ॥
Mantra 10
ये गोम॑न्तं॒ वाज॑वन्तं सु॒वीरं॑ र॒यिं ध॒त्थ वसु॑मन्तं पुरु॒क्षुम्। ते अ॑ग्रे॒पा ऋ॑भवो मन्दसा॒ना अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णन्ति॑ ॥१०॥
ये । गोऽम॑न्तम् । वाज॑ऽवन्तम् । सु॒ऽवीर॑म् । र॒यिम् । ध॒त्थ । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् । ते । अ॒ग्रे॒ऽपाः । ऋ॒भ॒वः॒ । म॒न्द॒सा॒नाः । अ॒स्मे इति॑ । ध॒त्त॒ । ये । च॒ । रा॒तिम् । गृ॒णन्ति॑ ॥
Mantra 11
नापा॑भूत॒ न वो॑ऽतीतृषा॒मानिः॑शस्ता ऋभवो य॒ज्ञे अ॒स्मिन्। समिन्द्रे॑ण॒ मद॑थ॒ सं म॒रुद्भिः॒ सं राज॑भी रत्न॒धेया॑य देवाः ॥११॥
न । अप॑ । अ॒भू॒त॒ । न । वः॒ । अ॒ती॒तृ॒षा॒म॒ । अनिः॑ऽशस्ताः । ऋ॒भ॒वः॒ । य॒ज्ञे । अ॒स्मिन् । सम् । इन्द्रे॑ण । मद॑थ । सम् । म॒रुत्ऽभिः॑ । सम् । राज॑ऽभिः । र॒त्न॒ऽधेया॑य । दे॒वाः॒ ॥