Mantra 1
प्र ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी॑ळे। ये वात॑जूतास्त॒रणि॑भि॒रेवैः॒ परि॒ द्यां स॒द्यो अ॒पसो॑ बभू॒वुः ॥१॥
प्र । ऋ॒भुऽभ्यः॑ । दू॒तम्ऽइ॑व । वाच॑म् । इ॒ष्ये॒ । उ॒प॒ऽस्तिरे॑ । श्वैत॑रीम् । धे॒नुम् । ई॒ळे॒ । ये । वात॑ऽजूताः । त॒रणि॑ऽभिः । एवैः॑ । परि॑ । द्याम् । स॒द्यः । अ॒पसः॑ । ब॒भू॒वुः ॥
Mantra 2
य॒दार॒मक्र॑न्नृ॒भवः॑ पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा॑ दं॒सना॑भिः। आदिद्दे॒वाना॒मुप॑ स॒ख्यमा॑य॒न्धीरा॑सः पु॒ष्टिम॑वहन्म॒नायै॑ ॥२॥
य॒दा । अर॑म् । अक्र॑न् । ऋ॒भवः॑ । पि॒तृऽभ्या॑म् । परि॑ऽविष्टी । वे॒षणा॑ । दं॒सना॑भिः । आत् । इत् । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒य॒न् । धीरा॑सः । पु॒ष्टिम् । अ॒व॒ह॒न् । म॒नायै॑ ॥
Mantra 3
पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा॑ना॒ सना॒ यूपे॑व जर॒णा शया॑ना। ते वाजो॒ विभ्वाँ॑ ऋ॒भुरिन्द्र॑वन्तो॒ मधु॑प्सरसो नोऽवन्तु य॒ज्ञम् ॥३॥
पुनः॑ । ये । च॒क्रुः । पि॒तरा॑ । युवा॑ना । सना॑ । यूपा॑ऽइव । ज॒र॒णा । शया॑ना । ते । वाजः॑ । विऽभ्वा॑ । ऋ॒भुः । इन्द्र॑वन्तः॑ । मधु॑ऽप्सरसः । नः॒ । अ॒व॒न्तु॒ । य॒ज्ञम् ॥
Mantra 4
यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं॑शन्। यत्सं॒वत्स॒मभ॑र॒न्भासो॑ अस्या॒स्ताभिः॒ शमी॑भिरमृत॒त्वमा॑शुः ॥४॥
यत् । स॒म्ऽवत्स॑म् । ऋ॒भवः॑ । गाम् । अर॑क्षन् । यत् । स॒म्ऽवत्स॑म् । ऋ॒भवः॑ । माः । अपिं॑शन् । यत् । स॒म्ऽवत्स॑म् । अ॒भ॑रन् । भासः॑ । अ॒स्याः॒ । ताभिः॑ । शमी॑भिः । अ॒मृ॒त॒ऽत्वम् । आ॒शुः॒ ॥
Mantra 5
ज्ये॒ष्ठ आ॑ह चम॒सा द्वा क॒रेति॒ कनी॑या॒न्त्रीन्कृ॑णवा॒मेत्या॑ह। क॒नि॒ष्ठ आ॑ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्प॑नय॒द्वचो॑ वः ॥५॥
ज्ये॒ष्ठः । आ॒ह॒ । च॒म॒सा । द्वा । क॒र॒ । इति॑ । कनी॑यान् । त्रीन् । कृ॒ण॒वा॒म॒ । इति॑ । आ॒ह॒ । क॒नि॒ष्ठः । आ॒ह॒ । च॒तुरः॑ । क॒र॒ । इति॑ । त्वष्टा॑ । ऋ॒भ॒वः॒ । तत् । प॒न॒य॒त् । वचः॑ । वः॒ ॥
Mantra 6
स॒त्यमू॑चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो॑ जग्मुरे॒ताम्। वि॒भ्राज॑मानांश्चम॒साँ अहे॒वावे॑न॒त्त्वष्टा॑ च॒तुरो॑ ददृ॒श्वान् ॥६॥
स॒त्यम् । ऊ॒चुः॒ । नरः॑ । ए॒व । हि । च॒क्रुः । अनु॑ । स्व॒धाम् । ऋ॒भवः॑ । ज॒ग्मुः॒ । ए॒ताम् । वि॒ऽभ्राज॑मानान् । च॒म॒सान् । अहा॑ऽइव । अवे॑नत् । त्वष्टा॑ । च॒तुरः॑ । द॒दृ॒श्वान् ॥
Mantra 7
द्वाद॑श॒ द्यून्यदगो॑ह्यस्याति॒थ्ये रण॑न्नृ॒भवः॑ स॒सन्तः॑। सु॒क्षेत्रा॑कृण्व॒न्नन॑यन्त॒ सिन्धू॒न्धन्वाति॑ष्ठि॒न्नोष॑धीर्नि॒म्नमापः॑ ॥७॥
द्वाद॑श । द्यून् । यत् । अगो॑ह्यस्य । आ॒ति॒थ्ये । रण॑न् । ऋ॒भवः॑ । स॒सन्तः॑ । सु॒ऽक्षेत्रा॑ । अ॒कृ॒ण्व॒न् । अन॑यन्त । सिन्धू॑न् । धन्व॑ । आ । अ॒ति॒ष्ठ॒न् । ओष॑धीः । नि॒म्नम् । आपः॑ ॥
Mantra 8
रथं॒ ये च॒क्रुः सु॒वृतं॑ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं॑ वि॒श्वरू॑पाम्। त आ त॑क्षन्त्वृ॒भवो॑ र॒यिं नः॒ स्वव॑सः॒ स्वप॑सः सु॒हस्ताः॑ ॥८॥
रथ॑म् । ये । च॒क्रुः । सु॒ऽवृत॑म् । न॒रे॒ऽस्थाम् । ये । धे॒नुम् । वि॒श्व॒ऽजुव॑म् । वि॒श्वऽरू॑पाम् । ते । आ । त॒क्ष॒न्तु॒ । ऋ॒भवः॑ । र॒यिम् । नः॒ । सु॒ऽअव॑सः । सु॒ऽअप॑सः । सु॒ऽहस्ताः॑ ॥
Mantra 9
अपो॒ ह्ये॑षा॒मजु॑षन्त दे॒वा अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या॑नाः। वाजो॑ दे॒वाना॑मभवत्सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा॑ ॥९॥
अपः॑ । हि । ए॒षा॒म् । अजु॑षन्त । दे॒वाः । अ॒भि । क्रत्वा॑ । मन॑सा । दीध्या॑नाः । वाजः॑ । दे॒वाना॑म् । अ॒भ॒व॒त् । सु॒ऽकर्मा॑ । इन्द्र॑स्य । ऋ॒भु॒क्षाः । वरु॑णस्य । विऽभ्वा॑ ॥
Mantra 10
ये हरी॑ मे॒धयो॒क्था मद॑न्त॒ इन्द्रा॑य च॒क्रुः सु॒युजा॒ ये अश्वा॑। ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यन्तो॒ न मि॒त्रम् ॥१०॥
ये । हरी॒ इति॑ । मे॒धया॑ । उ॒क्था । मद॑न्तः । इन्द्रा॑य । च॒क्रुः । सु॒ऽयुजा॑ । ये । अश्वा॑ । ते । रा॒यः । पोष॑म् । द्रवि॑णानि । अ॒स्मे इति॑ । ध॒त्त । ऋ॒भ॒वः॒ । क्षे॒म॒ऽयन्तः॑ । न । मि॒त्रम् ॥
Mantra 11
इ॒दाह्नः॑ पी॒तिमु॒त वो॒ मदं॑ धु॒र्न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः। ते नू॒नम॒स्मे ऋ॑भवो॒ वसू॑नि तृ॒तीये॑ अ॒स्मिन्त्सव॑ने दधात ॥११॥
इ॒दा । अह्नः॑ पी॒तिम् । उ॒त । वः॒ । मद॑म् । धुः॒ । न । ऋ॒ते । श्रा॒न्तस्य॑ । स॒ख्याय॑ । दे॒वाः । ते । नू॒नम् । अ॒स्मे इति॑ । ऋ॒भ॒वः॒ । वसू॑नि । तृ॒तीये॑ । अ॒स्मिन् । सव॑ने । द॒धा॒त॒ ॥