Mantra 1
आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि। म॒हान्म॒हीभि॑रू॒तिभिः॑ ॥१॥
आ । तु । नः॒ । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒स्माक॑म् । अ॒र्धम् । आ । ग॒हि॒ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ ॥
Mantra 2
भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा। चि॒त्रं कृ॑णोष्यू॒तये॑ ॥२॥
भृमिः॑ । चि॒त् । घ॒ । अ॒सि॒ । तूतु॑जिः । आ । चि॒त्र॒ । चि॒त्रिणी॑षु । आ । चि॒त्रम् । कृ॒णो॒षि॒ । ऊ॒तये॑ ॥
Mantra 3
द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राध॑न्त॒मोज॑सा। सखि॑भि॒र्ये त्वे सचा॑ ॥३॥
द॒भ्रेभिः॑ । चि॒त् । शशी॑यांसम् । हंसि॑ । व्राध॑न्तम् । ओज॑सा । सखि॑ऽभिः । ये । त्वे इति॑ । सचा॑ ॥
Mantra 4
व॒यमि॑न्द्र॒ त्वे सचा॑ व॒यं त्वा॒भि नो॑नुमः। अ॒स्माँअ॑स्माँ॒ इदुद॑व ॥४॥
व॒यम् । इ॒न्द्र॒ । त्वे इति॑ । सचा॑ । व॒यम् । त्वा॒ । अ॒भि । नो॒नु॒मः॒ । अ॒स्मान्ऽअ॑स्मान् । इत् । उत् । अ॒व॒ ॥
Mantra 5
स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑। अना॑धृष्टाभि॒रा ग॑हि ॥५॥
सः । नः॒ । चि॒त्राभिः॑ । अ॒द्रि॒ऽवः॒ । अ॒न॒व॒द्याभिः॑ । ऊ॒तिऽभिः॑ । अना॑धृष्टाभिः । आ । ग॒हि॒ ॥
Mantra 6
भू॒यामो॒ षु त्वाव॑तः॒ सखा॑य इन्द्र॒ गोम॑तः। युजो॒ वाजा॑य॒ घृष्व॑ये ॥६॥
भू॒यामो॒ इति॑ । सु । त्वाऽव॑तः । सखा॑यः । इ॒न्द्र॒ । गोऽम॑तः । युजः॑ । वाजा॑य । घृष्व॑ये ॥
Mantra 7
त्वं ह्येक॒ ईशि॑ष॒ इन्द्र॒ वाज॑स्य॒ गोम॑तः। स नो॑ यन्धि म॒हीमिष॑म् ॥७॥
त्वम् । हि । एकः॑ । ईशि॑षे । इन्द्र॑ । वाज॑स्य । गोऽम॑तः । सः । नः॒ । य॒न्धि॒ । म॒हीम् । इष॑म् ॥
Mantra 8
न त्वा॑ वरन्ते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घम्। स्तो॒तृभ्य॑ इन्द्र गिर्वणः ॥८॥
न । त्वा॒ । व॒र॒न्ते॒ । अ॒न्यथा॑ । यत् । दित्स॑सि । स्तु॒तः । म॒घम् । स्तो॒तृऽभ्यः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥
Mantra 9
अ॒भि त्वा॒ गोत॑मा गि॒रानू॑षत॒ प्र दा॒वने॑। इन्द्र॒ वाजा॑य॒ घृष्व॑ये ॥९॥
अ॒भि । त्वा॒ । गोत॑माः । गि॒रा । अनू॑षत । प्र । दा॒वने॑ । इन्द्र॑ । वाजा॑य । घृष्व॑ये ॥
Mantra 10
प्र ते॑ वोचाम वी॒र्या॒३॒॑ या म॑न्दसा॒न आरु॑जः। पुरो॒ दासी॑र॒भीत्य॑ ॥१०॥
प्र । ते॒ । वो॒चा॒म॒ । वी॒र्या॑ । याः । म॒न्द॒स॒नः । आ । अरु॑जः । पुरः॑ । दासीः॑ । अ॒भि॒ऽइत्य॑ ॥
Mantra 11
ता ते॑ गृणन्ति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या॑। सु॒तेष्वि॑न्द्र गिर्वणः ॥११॥
ता । ते॒ । गृ॒ण॒न्ति॒ । वे॒धसः॑ । यानि॑ । च॒कर्थ॑ । पौंस्या॑ । सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥
Mantra 12
अवी॑वृधन्त॒ गोत॑मा॒ इन्द्र॒ त्वे स्तोम॑वाहसः। ऐषु॑ धा वी॒रव॒द्यशः॑ ॥१२॥
अवी॑वृधन्त । गोत॑माः । इन्द्र॑ । त्वे इति॑ । स्तोम॑ऽवाहसः । आ । ए॒षु॒ । धाः॒ । वी॒रऽव॑त् । यशः॑ ॥
Mantra 13
यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा॑रण॒स्त्वम्। तं त्वा॑ व॒यं ह॑वामहे ॥१३॥
यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् । तम् । त्वा॒ । व॒यम् । हा॒वा॒म॒हे॒ ॥
Mantra 14
अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वान्ध॑सः। सोमा॑नामिन्द्र सोमपाः ॥१४॥
अ॒र्वा॒ची॒नः । व॒सो॒ इति॑ । भ॒व॒ । अ॒स्मे इति॑ । सु । म॒त्स्व॒ । अन्ध॑सः । सोमा॑नाम् । इ॒न्द्र॒ । सो॒म॒ऽपाः॒ ॥
Mantra 15
अ॒स्माकं॑ त्वा मती॒नामा स्तोम॑ इन्द्र यच्छतु। अ॒र्वागा व॑र्तया॒ हरी॑ ॥१५॥
अ॒स्माक॑म् । त्वा॒ । म॒ती॒नाम् । आ । स्तोमः॑ । इ॒न्द्र॒ । य॒च्छ॒तु॒ । अ॒र्वाक् । आ । व॒र्त॒य॒ । हरी॒ इति॑ ॥
Mantra 16
पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः। व॒धू॒युरि॑व॒ योष॑णाम् ॥१६॥
पु॒रो॒ळास॑म् । च॒ । नः॒ । घसः॑ । जो॒षया॑से । गिरः॑ । च॒ । नः॒ । व॒धू॒युःऽइ॑व । योष॑णाम् ॥
Mantra 17
स॒हस्रं॒ व्यती॑नां यु॒क्ताना॒मिन्द्र॑मीमहे। श॒तं सोम॑स्य खा॒र्यः॑ ॥१७॥
स॒हस्र॑म् । व्यती॑नाम् । यु॒क्ताना॑म् । इन्द्र॑म् । ई॒म॒हे॒ । श॒तम् । सोम॑स्य । खा॒र्यः॑ ॥
Mantra 18
स॒हस्रा॑ ते श॒ता व॒यं गवा॒मा च्या॑वयामसि। अ॒स्म॒त्रा राध॑ एतु ते ॥१८॥
स॒हस्रा॑ । ते॒ । श॒ता । व॒यम् । गवा॑म् । आ । च्या॒व॒या॒म॒सि॒ । अ॒स्म॒ऽत्रा । राधः॑ । ए॒तु॒ । ते॒ ॥
Mantra 19
दश॑ ते क॒लशा॑नां॒ हिर॑ण्यानामधीमहि। भू॒रि॒दा अ॑सि वृत्रहन् ॥१९॥
दश॑ । ते॒ । क॒लशा॑नाम् । हिर॑ण्यानाम् । अ॒धी॒म॒हि॒ । भू॒रि॒ऽदाः । अ॒सि॒ । वृ॒त्र॒ऽह॒न् ॥
Mantra 20
भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र। भूरि॒ घेदि॑न्द्र दित्ससि ॥२०॥
भूरि॑ऽदाः । भूरि॑ । दे॒हि॒ । नः॒ । मा । द॒भ्रम् । भूरि॑ । आ । भ॒र॒ । भूरि॑ । घ॒ । इत् । इ॒न्द्र॒ । दि॒त्स॒सि॒ ॥
Mantra 21
भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू॑र वृत्रहन्। आ नो॑ भजस्व॒ राध॑सि ॥२१॥
भू॒रि॒ऽदाः । हि । असि॑ । श्रु॒तः । पु॒रु॒ऽत्रा । शू॒र॒ । वृ॒त्र॒ऽह॒न् । आ । नः॒ । भ॒ज॒स्व॒ । राध॑सि ॥
Mantra 22
प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंसा॑मि गोषणो नपात्। माभ्यां॒ गा अनु॑ शिश्रथः ॥२२॥
प्र । ते॒ । ब॒भ्रू इति॑ । वि॒ऽच॒क्ष॒ण॒ । शंसा॑मि । गो॒ऽस॒णः॒ । न॒पा॒त् । मा । आ॒भ्या॒म् । गाः । अनु॑ । शि॒श्र॒थः॒ ॥
Mantra 23
क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के। ब॒भ्रू यामे॑षु शोभेते ॥२३॥
क॒नी॒न॒काऽइ॑व । वि॒द्र॒धे । नवे॑ । द्रु॒ऽप॒दे । अ॒र्भ॒के । ब॒भ्रू इति॑ । यामे॑षु । शो॒भे॒ते॒ इति॑ ॥
Mantra 24
अरं॑ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे। ब॒भ्रू यामे॑ष्व॒स्रिधा॑ ॥२४॥
अर॑म् । मे॒ । उ॒स्रऽया॑म्णे । अर॑म् । अनु॑स्रऽयाम्ने । ब॒भ्रू इति॑ । यामे॑षु । अ॒स्रिधा॑ ॥