Mantra 1
कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑। कया॒ शचि॑ष्ठया वृ॒ता ॥१॥
कया॑ । नः॒ । चि॒त्रः । आ । भु॒व॒त् । ऊ॒ती । स॒दाऽवृ॑धः । सखा॑ । कया॑ । शचि॑ष्ठया । वृ॒ता ॥
Mantra 2
कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः। दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ॥२॥
कः । त्वा॒ । स॒त्यः । मदा॑नाम् । मंहि॑ष्ठः । म॒त्स॒त् । अन्ध॑सः । दृ॒ळ्हा । चि॒त् । आ॒ऽरुजे॑ । वसु॑ ॥
Mantra 3
अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम्। श॒तं भ॑वास्यू॒तिभिः॑ ॥३॥
अ॒भि । सु । नः॒ । सखी॑नाम् । अ॒वि॒ता । ज॒रि॒तॄ॒णाम् । श॒तम् । भ॒वा॒सि॒ । ऊ॒तिऽभिः॑ ॥
Mantra 4
अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः। नि॒युद्भि॑श्चर्षणी॒नाम् ॥४॥
अ॒भि । नः॒ । आ । व॒वृ॒त्स्व॒ । च॒क्रम् । न । वृ॒त्तम् । अर्व॑तः । नि॒युत्ऽभिः॑ । च॒र्ष॒णी॒नाम् ॥
Mantra 5
प्र॒वता॒ हि क्रतू॑ना॒मा हा॑ प॒देव॒ गच्छ॑सि। अभ॑क्षि॒ सूर्ये॒ सचा॑ ॥५॥
प्र॒ऽवता॑ । हि । क्रतू॑नाम् । आ । ह॒ । प॒दाऽइ॑व । गच्छ॑सि । अभ॑क्षि । सूर्ये॑ । सचा॑ ॥
Mantra 6
सं यत्त॑ इन्द्र म॒न्यवः॒ सं च॒क्राणि॑ दधन्वि॒रे। अध॒ त्वे अध॒ सूर्ये॑ ॥६॥
सम् । यत् । ते॒ । इ॒न्द्र॒ । म॒न्यवः॑ । सम् । च॒क्राणि॑ । द॒ध॒न्वि॒रे । अध॑ । त्वे इति॑ । अध॑ । सूर्ये॑ ॥
Mantra 7
उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा॑नं शचीपते। दाता॑र॒मवि॑दीधयुम् ॥७॥
उ॒त । स्म॒ । हि । त्वाम् । आ॒हुः । इत् । म॒घऽवा॑नम् । श॒ची॒ऽप॒ते॒ । दाता॑रम् । अवि॑ऽदीधयुम् ॥
Mantra 8
उ॒त स्मा॑ स॒द्य इत्परि॑ शशमा॒नाय॑ सुन्व॒ते। पु॒रू चि॑न्मंहसे॒ वसु॑ ॥८॥
उ॒त । स्म॒ । स॒द्यः । इत् । परि॑ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । पु॒रु । चि॒त् । मं॒ह॒से॒ । वसु॑ ॥
Mantra 9
न॒हि ष्मा॑ ते श॒तं च॒न राधो॒ वर॑न्त आ॒मुरः॑। न च्यौ॒त्नानि॑ करिष्य॒तः ॥९॥
न॒हि । स्म॒ । ते॒ । श॒तम् । च॒न । राधः॑ । वर॑न्ते । आ॒ऽमुरः॑ । न । च्यौ॒त्नानि॑ । क॒रि॒ष्य॒तः ॥
Mantra 10
अ॒स्माँ अ॑वन्तु ते श॒तम॒स्मान्त्स॒हस्र॑मू॒तयः॑। अ॒स्मान्विश्वा॑ अ॒भिष्ट॑यः ॥१०॥
अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । श॒तम् । अ॒स्मान् । स॒हस्र॑म् । ऊ॒तयः॑ । अ॒स्मान् । विश्वाः॑ । अ॒भिष्ट॑यः ॥
Mantra 11
अ॒स्माँ इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये॑। म॒हो रा॒ये दि॒वित्म॑ते ॥११॥
अ॒स्मान् । इ॒ह । वृ॒णी॒ष्व॒ । स॒ख्याय॑ । स्व॒स्तये॑ । म॒हः । रा॒ये । दि॒वित्म॑ते ॥
Mantra 12
अ॒स्माँ अ॑विड्ढि वि॒श्वहेन्द्र॑ रा॒या परी॑णसा। अ॒स्मान्विश्वा॑भिरू॒तिभिः॑ ॥१२॥
अ॒स्मान् । अ॒वि॒ड्ढि॒ । वि॒श्वऽहा॑ । इन्द्र॑ । रा॒या । परी॑णसा । अ॒स्मान् । विश्वा॑भिः । ऊ॒तिऽभिः॑ ॥
Mantra 13
अ॒स्मभ्यं॒ ताँ अपा॑ वृधि व्र॒जाँ अस्ते॑व॒ गोम॑तः। नवा॑भिरिन्द्रो॒तिभिः॑ ॥१३॥
अ॒स्मभ्य॑म् । तान् । अप॑ । वृ॒धि॒ । व्र॒जान् । अस्ता॑ऽइव । गोऽम॑तः । नवा॑भिः । इ॒न्द्र॒ । ऊ॒तिऽभिः॑ ॥
Mantra 14
अ॒स्माकं॑ धृष्णु॒या रथो॑ द्यु॒माँ इ॒न्द्रान॑पच्युतः। ग॒व्युर॑श्व॒युरी॑यते ॥१४॥
अ॒स्माक॑म् । धृ॒ष्णु॒ऽया । रथः॑ । द्यु॒ऽमान् । इ॒न्द्र॒ । अन॑पऽच्युतः । ग॒व्युः । अ॒श्व॒युः । ई॒य॒ते॒ ॥
Mantra 15
अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो॑ दे॒वेषु॑ सूर्य। वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ॥१५॥
अ॒स्माक॑म् । उ॒त्ऽत॒मम् । कृ॒धि॒ । श्रवः॑ । दे॒वेषु॑ । सू॒र्य॒ । वर्षि॑ष्ठम् । द्याम्ऽइ॑व । उ॒परि॑ ॥