Mantra 1
आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः। अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥१॥
आ । वः॒ । राजा॑नम् । अ॒ध्व॒रस्य॑ । रु॒द्रम् । होता॑रम् । स॒त्य॒ऽयज॒म् । रोद॑स्योः । अ॒ग्निम् । पु॒रा । त॒न॒यि॒त्नोः । अ॒चित्ता॑त् । हिर॑ण्यऽरूपम् । अव॑से । कृ॒णु॒ध्व॒म् ॥
Mantra 2
अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑। अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः ॥२॥
अ॒यम् । योनिः॑ । च॒कृ॒म । यम् । व॒यम् । ते॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ । अ॒र्वा॒ची॒नः । परि॑ऽवीतः । नि । सी॒द॒ । इ॒माः । ऊँ॒ इति॑ । ते॒ । सु॒ऽअ॒पा॒क॒ । प्र॒ती॒चीः ॥
Mantra 3
आ॒शृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः। दे॒वाय॑ श॒स्तिम॒मृता॑य शंस॒ ग्रावे॑व॒ सोता॑ मधु॒षुद्यमी॒ळे ॥३॥
आ॒शृ॒ण्व॒ते । अदृ॑पिताय । मन्म॑ । नृ॒ऽचक्ष॑से । सु॒ऽमृ॒ळी॒काय॑ । वे॒धः॒ । दे॒वाय॑ । श॒स्तिम् । अ॒मृता॑य । शं॒स॒ । ग्रावा॑ऽइव । सोता॑ । म॒धु॒ऽसुत् । यम् । ई॒ळे ॥
Mantra 4
त्वं चि॑न्नः॒ शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः। क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते॑ ॥४॥
त्वम् । चि॒त् । नः॒ । शम्यै॑ । अ॒ग्ने॒ । अ॒स्याः । ऋ॒तस्य॑ । बो॒धि॒ । ऋ॒त॒ऽचि॒त् । सु॒ऽआ॒धीः । क॒दा । ते॒ । उ॒क्था । स॒ध॒ऽमाद्या॑नि । क॒दा । भ॒व॒न्ति॒ । स॒ख्या । गृ॒हे । ते॒ ॥
Mantra 5
क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आगः॑। क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रवः॒ कद॑र्य॒म्णे कद्भगा॑य ॥५॥
क॒था । ह॒ । तत् । वरु॑णाय । त्वम् । अ॒ग्ने॒ । क॒था दि॒वे ग॒र्ह॒से॒ । कत् । नः॒ । आगः॑ । क॒था । मि॒त्राय । मी॒ळ्हुषे॑ । पृ॒थि॒व्यै । ब्रवः॑ । कत् । अ॒र्य॒म्णे । कत् । भगा॑य ॥
Mantra 6
कद्धिष्ण्या॑सु वृधसा॒नो अ॑ग्ने॒ कद्वाता॑य॒ प्रत॑वसे शुभं॒ये। परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रवः॒ कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ॥६॥
कत् । धिष्ण्या॑सु । वृ॒ध॒सा॒नः । अ॒ग्ने॒ । कत् । वाता॑य । प्रऽत॑वसे । शु॒भँ॒म्ये । परि॑ऽज्मने । नास॑त्याय । क्षे । ब्रवः॑ । कत् । अ॒ग्ने॒ । रु॒द्राय॑ । नृ॒ऽघ्ने ॥
Mantra 7
क॒था म॒हे पु॑ष्टिंभ॒राय॑ पू॒ष्णे कद्रु॒द्राय॒ सुम॑खाय हवि॒र्दे। कद्विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रवः॒ कद॑ग्ने॒ शर॑वे बृह॒त्यै ॥७॥
क॒था । म॒हे । पु॒ष्टि॒म्ऽभ॒राय॑ । पू॒ष्णे । कत् । रु॒द्राय॑ । सुऽम॑खाय । ह॒विः॒ऽदे । कत् । विष्ण॑वे । उ॒रु॒ऽगा॒याय॑ । रेतः॑ । ब्रवः॑ । कत् । अ॒ग्ने॒ । शर॑वे । बृ॒ह॒त्यै ॥
Mantra 8
क॒था शर्धा॑य म॒रुता॑मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा॑नः। प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ॥८॥
क॒था । शर्धा॑य । म॒रुता॑म् । ऋ॒ताय॑ । क॒था । सू॒रे । बृ॒ह॒ते । पृ॒च्छ्यमा॑नः । प्रति॑ । ब्र॒वः॒ । अदि॑तये । तु॒राय॑ । साध॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥
Mantra 9
ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत्प॒क्वम॑ग्ने। कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम॑र्येण॒ पय॑सा पीपाय ॥९॥
ऋ॒तेन॑ । ऋ॒तम् । निऽय॑तम् । ई॒ळे॒ । आ । गोः । आ॒मा । सचा॑ । मधु॑ऽमत् । प॒क्वम् । अ॒ग्ने॒ । कृ॒ष्णा । स॒ती । रुश॑ता । धा॒सिना॑ । ए॒षा । जाम॑र्येण । पय॑सा । प्प्य् ॥
Mantra 10
ऋ॒तेन॒ हि ष्मा॑ वृष॒भश्चि॑द॒क्तः पुमाँ॑ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये॑न। अस्प॑न्दमानो अचरद्वयो॒धा वृषा॑ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥१०॥
ऋ॒तेनः॑ । हि । स्म॒ । वृ॒ष॒भः । चि॒त् । अ॒क्तः । पुमा॑न् । अ॒ग्निः । पय॑सा । पृ॒ष्ट्ये॑न । अस्प॑न्दमानः । अ॒च॒र॒त् । व॒यः॒ऽधाः । वृषा॑ । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥
Mantra 11
ऋ॒तेनाद्रिं॒ व्य॑सन्भि॒दन्तः॒ समङ्गि॑रसो नवन्त॒ गोभिः॑। शु॒नं नरः॒ परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ॥११॥
ऋतेन॑ । अद्रि॑म् । वि । अ॒स॒न् । भि॒दन्तः॑ । सम् । अङ्गि॑रसः । न॒व॒न्त॒ । गोऽभिः॑ । शु॒नम् । नरः॑ । परि॑ । स॒द॒न् । उ॒षस॑म् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ॥
Mantra 12
ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो॑भि॒रापो॒ मधु॑मद्भिरग्ने। वा॒जी न सर्गे॑षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि॑तवे दधन्युः ॥१२॥
ऋ॒तेन॑ । दे॒वीः । अ॒मृताः॑ । अमृ॑क्ताः । अर्णः॑ऽभिः । आपः॑ । मधु॑मत्ऽभिः । अ॒ग्ने॒ । वा॒जी । न । सर्गे॑षु । प्र॒ऽस्तु॒भा॒नः । प्र । सद॑म् । इत् । स्रवि॑तवे । द॒ध॒न्यु॒ह् ॥
Mantra 13
मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः। मा भ्रातु॑रग्ने॒ अनृ॑जोर्ऋ॒णं वे॒र्मा सख्यु॒र्दक्षं॑ रि॒पोर्भु॑जेम ॥१३॥
मा । कस्य॑ । य॒क्षम् । सद॑म् । इत् । हु॒रः । गाः॒ । मा । वे॒शस्य॑ । प्र॒ऽमि॒न॒तः । मा । आ॒पेः । मा । भ्रातुः॑ । अ॒ग्ने॒ । अनृ॑जोः । ऋ॒णम् । वेः॒ । मा । सख्युः॑ । दक्ष॑म् । रि॒पोः । भु॒जे॒म॒ ॥
Mantra 14
रक्षा॑ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः। प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो॑ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नम् ॥१४॥
रक्षा॑णः । अ॒ग्ने॒ । तव॑ । रक्ष॑णेभिः । र॒र॒क्षा॒णः । सु॒ऽम॒ख॒ । प्री॒णा॒नः । प्रति॑ । स्फु॒र॒ । वि । रु॒ज॒ । वी॒ळु । अंहः॑ । ज॒हि । रक्षः॑ । महि॑ । चित् । व॒वृ॒धा॒नम् ॥
Mantra 15
ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मान्त्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न्। उ॒त ब्रह्मा॑ण्यङ्गिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत ॥१५॥
ए॒भिः । भ॒व॒ । सु॒ऽमनाः॑ । अ॒ग्ने॒ । अ॒र्कैः । इ॒मान् । स्पृ॒श॒ । मन्म॑ऽभिः । शू॒र॒ । वाजा॑न् । उ॒त । ब्रह्मा॑णि । अ॒ङ्गि॒रः॒ । जु॒ष॒स्व॒ । सम् । ते॒ । श॒स्तिः । दे॒ववा॑ता । ज॒रे॒त॒ ॥
Mantra 16
ए॒ता विश्वा॑ वि॒दुषे॒ तुभ्यं॑ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां॑सि। नि॒वच॑ना क॒वये॒ काव्या॒न्यशं॑सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ॥१६॥
ए॒ता । विश्वा॑ । वि॒दुषे॑ । तुभ्य॑म् । वे॒धः॒ । नी॒थानि॑ । अ॒ग्ने॒ । नि॒ण्या । वचां॑सि । नि॒ऽवच॑ना । क॒वये॑ । काव्या॑नि । अशं॑सिषम् । म॒तिऽभिः॑ । विप्रः॑ । उ॒क्थैः ॥