Mantra with Swara
आ नः॑ स्तु॒त उप॒ वाजे॑भिरू॒ती इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः। ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या॑ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥१॥
आ । नः॒ । स्तु॒तः । उप॑ । वाजे॑भिः । ऊ॒ती । इन्द्र॑ । या॒हि । हरि॑ऽभिः । म॒न्द॒सा॒नः । ति॒रः । चि॒त् । अ॒र्यः । सव॑ना । पु॒रूणि । आ॒ङ्गू॒षेभिः॑ । गृ॒णा॒नः । स॒त्यऽरा॑धाः ॥
Mantra without Swara
आ नः स्तुत उप वाजेभिरूती इन्द्र याहि हरिभिर्मन्दसानः। तिरश्चिदर्यः सवना पुरूण्याङ्गूषेभिर्गृणानः सत्यराधाः ॥
आ। नः। स्तुतः। उप। वाजेभिः। ऊती। इन्द्र। याहि। हरिऽभिः। मन्दसानः। तिरः। चित्। अर्यः। सवना। पुरूणि। आङ्गूषेभिः। गृणानः। सत्यऽराधाः ॥१॥
Ashtak » 3
Adhyay » 6
Varga » 18
Mantra » 1
