Mantra with Swara
अह॒न्निन्द्रो॒ अद॑हद॒ग्निरि॑न्दो पु॒रा दस्यू॑न्म॒ध्यन्दि॑नाद॒भीके॑। दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब॑र्हीत् ॥३॥
अह॑न् । इन्द्रः॑ । अद॑हत् । अ॒ग्निः । इ॒न्दो॒ इति॑ । पु॒रा । दम्यू॑न् । म॒ध्यन्दि॑नात् । अ॒भीके॑ । दुः॒ऽगे । दु॒रो॒णे । क्रत्वा॑ । न । या॒ताम् । पु॒रु । स॒हस्रा॑ । शर्वा॑ । नि । ब॒र्ही॒त् ॥
Mantra without Swara
अहन्निन्द्रो अदहदग्निरिन्दो पुरा दस्यून्मध्यन्दिनादभीके। दुर्गे दुरोणे क्रत्वा न यातां पुरू सहस्रा शर्वा नि बर्हीत् ॥
अहन्। इन्द्रः। अदहत्। अग्निः। इन्दो इति। पुरा। दस्यून्। मध्यन्दिनात्। अभीके। दुःऽगे। दुरोणे। क्रत्वा। न। याताम्। पुरु। सहस्रा। शर्वा। नि। बर्हीत् ॥३॥
Ashtak » 3
Adhyay » 6
Varga » 17
Mantra » 3
