Mantra 1
को अ॒द्य नर्यो॑ दे॒वका॑म उ॒शन्निन्द्र॑स्य स॒ख्यं जु॑जोष। को वा॑ म॒हेऽव॑से॒ पार्या॑य॒ समि॑द्धे अ॒ग्नौ सु॒तसो॑म ईट्टे ॥१॥
कः । अ॒द्य । नर्यः॑ । दे॒वऽका॑मः । उ॒शन् । इन्द्र॑स्य । स॒ख्यम् । जु॒जो॒ष॒ । कः । वा॒ । म॒हे । अव॑से । पार्या॑य । सम्ऽइ॑द्धे । अ॒ग्नौ । सु॒तऽसो॑मः । ई॒ट्टे॒ ॥
Mantra 2
को ना॑नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा॑ भवति॒ वस्त॑ उ॒स्राः। क इन्द्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ॥२॥
कः । न॒ना॒म॒ । वच॑सा । सो॒म्याय॑ । म॒ना॒युः । वा॒ । भ॒व॒ति॒ । वस्ते॑ । उ॒स्राः । कः । इन्द्र॑स्य । युज्य॑म् । कः । स॒खि॒ऽत्वम् । कः । भ्रा॒त्रम् । व॒ष्टि॒ । क॒वये॑ । कः । ऊ॒ती ॥
Mantra 3
को दे॒वाना॒मवो॑ अ॒द्या वृ॑णीते॒ क आ॑दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे। कस्या॒श्विना॒विन्द्रो॑ अ॒ग्निः सु॒तस्यां॒शोः पि॑बन्ति॒ मन॒सावि॑वेनम् ॥३॥
कः । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒ते॒ । कः । आ॒दि॒त्यान् । अदि॑तिम् । ज्योतिः॑ । ई॒ट्टे॒ । कस्य॑ । अ॒श्विनौ॑ । इन्द्रः॑ । अ॒ग्निः । सु॒तस्य॑ । अं॒शोः । पि॒ब॒न्ति॒ । मन॑सा । अवि॑ऽवेनम् ॥
Mantra 4
तस्मा॑ अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चर॑न्तम्। य इन्द्रा॑य सु॒नवा॒मेत्याह॒ नरे॒ नर्या॑य॒ नृत॑माय नृ॒णाम् ॥४॥
तस्मै॑ । अ॒ग्निः । भार॑तः । शर्म॑ । यं॒स॒त् । ज्योक् । प॒श्या॒त् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् । यः । इन्द्रा॑य । सु॒नवा॑म । इति॑ । आह॑ । नरे॑ । नर्या॑य । नृऽत॑माय । नृ॒णाम् ॥
Mantra 5
न तं जि॑नन्ति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑तिः॒ शर्म॑ यंसत्। प्रि॒यः सु॒कृत्प्रि॒य इन्द्रे॑ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ॥५॥
न । तम् । जि॒न॒न्ति॒ । ब॒हवः॑ । न । द॒भ्राः । उ॒रु । अ॒स्मै॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् । प्रि॒यः । सु॒ऽकृत् । प्रि॒यः । इन्द्रे॑ । म॒ना॒युः । प्रि॒यः । सु॒प्र॒ऽअ॒वीः । प्रि॒यः । अ॒स्य॒ । सो॒मी ॥
Mantra 6
सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः॑ प॒क्तिं कृ॑णुते॒ केव॒लेन्द्रः॑। नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो॑ऽवह॒न्तेदवा॑चः ॥६॥
सु॒प्र॒ऽअ॒व्यः॑ । प्रा॒शु॒षाट् । ए॒षः । वी॒रः । सुस्वेः॑ । प॒क्तिम् । कृ॒णु॒ते॒ । केव॑ला । इन्द्रः॑ । न । असु॑स्वेः । आ॒पिः । न । सखा॑ । न । जा॒मिः । दुः॒प्र॒ऽअ॒व्यः॑ । अ॒व॒ऽह॒न्ता । इत् । अवा॑चः ॥
Mantra 7
न रे॒वता॑ प॒णिना॑ स॒ख्यमिन्द्रोऽसु॑न्वता सुत॒पाः सं गृ॑णीते। आस्य॒ वेदः॑ खि॒दति॒ हन्ति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ॥७॥
न । रे॒वता॑ । प॒णिना॑ । स॒ख्यम् । इन्द्रः॑ । असु॑न्वता । सु॒त॒ऽपाः । सम् । गृ॒णी॒ते॒ । आ । अ॒स्य॒ । वेदः॑ । खि॒दति॑ । हन्ति॑ । न॒ग्नम् । वि । सुस्व॑ये । प॒क्तये॑ । केव॑लः । भूत् ॥
Mantra 8
इन्द्रं॒ परेऽव॑रे मध्य॒मास॒ इन्द्रं॒ यान्तोऽव॑सितास॒ इन्द्र॑म्। इन्द्रं॑ क्षि॒यन्त॑ उ॒त युध्य॑माना॒ इन्द्रं॒ नरो॑ वाज॒यन्तो॑ हवन्ते ॥८॥
इन्द्र॑म् । परे॑ । अव॑रे । म॒ध्य॒मासः॑ । इन्द्र॑म् । यान्तः॑ । अव॑ऽसितासः । इन्द्र॑म् । इन्द्र॑म् । क्षि॒यन्तः॑ । उ॒त । युध्य॑मानाः । इन्द्र॑म् । नरः॑ । वा॒ज॒यन्तः॑ । ह॒व॒न्ते॒ ॥