Mantra 1
का सु॑ष्टु॒तिः शव॑सः सू॒नुमिन्द्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत्। द॒दिर्हि वी॒रो गृ॑ण॒ते वसू॑नि॒ स गोप॑तिर्नि॒ष्षिधां॑ नो जनासः ॥१॥
का । सु॒ऽस्तु॒तिः । शव॑सः । सू॒नुम् । इन्द्र॑म् । अ॒र्वा॒ची॒नम् । राध॑से । आ । व॒व॒र्त॒त् । द॒दिः । हि । वी॒रः । गृ॒ण॒ते । वसू॑नि । सः । गोऽप॑तिः । निः॒ऽसिधा॑म् । नः॒ । ज॒ना॒सः॒ ॥
Mantra 2
स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इन्द्रः॑ स॒त्यरा॑धाः। स याम॒न्ना म॒घवा॒ मर्त्या॑य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ॥२॥
सः । वृ॒त्र॒ऽहत्ये॑ । हव्यः॑ । सः । ईड्यः॑ । सः । सुऽस्तु॑तः । इन्द्रः॑ । स॒त्यऽरा॑धाः । सः । याम॑न् । आ । म॒घऽवा॑ । मर्त्या॑य । ब्र॒ह्म॒ण्य॒ते । सुष्व॑ये । वरि॑वः । धा॒त् ॥
Mantra 3
तमिन्नरो॒ वि ह्व॑यन्ते समी॒के रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ त्राम्। मि॒थो यत्त्या॒गमु॒भया॑सो॒ अग्म॒न्नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ॥३॥
तम् । इत् । नरः॑ । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के । रि॒रि॒क्वांसः॑ । त॒न्वः॑ । कृ॒ण्व॒त॒ । त्राम् । मि॒थः । यत् । त्या॒गम् । उ॒भ्या॑सः । अग्म॑न् । नरः॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तौ ॥
Mantra 4
क्र॒तू॒यन्ति॑ क्षि॒तयो॒ योग॑ उग्राशुषा॒णासो॑ मि॒थो अर्ण॑सातौ। सं यद्विशोऽव॑वृत्रन्त यु॒ध्मा आदिन्नेम॑ इन्द्रयन्ते अ॒भीके॑ ॥४॥
क्र॒तु॒अन्ति॑ । क्षि॒तयः॑ । योगे॑ । उ॒ग्र॒ । आ॒शु॒षा॒णासः॑ । मि॒थः । अर्ण॑ऽसातौ । सम् । यत् । विशः॑ । अव॑वृत्रन्त । यु॒ध्माः । आत् । इत् । नेमे॑ । इ॒न्द्र॒य॒न्ते॒ । अ॒भीके॑ ॥
Mantra 5
आदिद्ध॒ नेम॑ इन्द्रि॒यं य॑जन्त॒ आदित्प॒क्तिः पु॑रो॒ळाशं॑ रिरिच्यात्। आदित्सोमो॒ वि प॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोष वृष॒भं यज॑ध्यै ॥५॥
आत् । इत् । ह॒ । नेमे॑ । इ॒न्द्रि॒यम् । य॒ज॒न्ते॒ । आत् । इत् । प॒क्तिः । पु॒रो॒ळाश॑म् । रि॒रि॒च्या॒त् । आत् । इ॒त् । सोमः॑ । वि । प॒पृ॒च्या॒त् । असु॑स्वीन् । आत् । इत् । जु॒जो॒ष॒ । वृ॒ष॒भम् । यज॑ध्यै ॥
Mantra 6
कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्थेन्द्रा॑य॒ सोम॑मुश॒ते सु॒नोति॑। स॒ध्री॒चीने॑न॒ मन॒सावि॑वेन॒न्तमित्सखा॑यं कृणुते स॒मत्सु॑ ॥६॥
कृ॒णोति॑ । अ॒स्मै॒ । वरि॑वः॑ । यः । इ॒त्था । इन्द्रा॑य । सोम॑म् । उ॒श॒ते । सु॒नोति॑ । स॒ध्री॒चीने॑न । मन॑सा । अवि॑ऽवेनम् । तम् । इत् । सखा॑यम् । कृ॒णु॒ते॒ । स॒मत्ऽसु॑ ॥
Mantra 7
य इन्द्रा॑य सु॒नव॒त्सोम॑म॒द्य पचा॑त्प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः। प्रति॑ मना॒योरु॒चथा॑नि॒ हर्य॒न्तस्मि॑न्दध॒द्वृष॑णं॒ शुष्म॒मिन्द्रः॑ ॥७॥
यः । इन्द्रा॑य । सु॒नव॑त् । सोम॑म् । अ॒द्य । पचा॑त् । प॒क्तीः । उ॒त । भृ॒ज्जाति॑ । धा॒नाः । प्रति॑ । म॒ना॒योः । उ॒चथा॑नि । हर्य॑न् । तस्मि॑न् । दध॑त् । वृष॑णम् । शुष्म॑म् । इन्द्रः॑ ॥
Mantra 8
य॒दा स॑म॒र्यं व्यचे॒दृघा॑वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः। अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा॑ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ॥८॥
य॒दा । स॒ऽम॒र्यम् । वि । अचे॑त् । ऋघा॑वा । दी॒र्घम् । यत् । आ॒जिम् । अ॒भि । अख्य॑त् । अ॒र्यः । अचि॑क्रदत् । वृष॑णम् । पत्नी॑ । अच्छ॑ । दु॒रो॒णे । आ । निऽशि॑तम् । सो॒म॒सुत्ऽभिः॑ ॥
Mantra 9
भूय॑सा व॒स्नम॑चर॒त्कनी॒योऽवि॑क्रीतो अकानिषं॒ पुन॒र्यन्। स भूय॑सा॒ कनी॑यो॒ नारि॑रेचीद्दी॒ना दक्षा॒ वि दु॑हन्ति॒ प्र वा॒णम् ॥९॥
भूय॑सा । व॒स्नम् । अ॒च॒र॒त् । क॒नी॒यः । अवि॑ऽक्रीतः । अ॒का॒नि॒ष॒म् । पुनः॑ । यन् । सः । भूय॑सा । कनी॑यः । न । अ॒रि॒रे॒ची॒त् । दी॒नाः । दक्षाः॑ । वि । दु॒ह॒न्ति॒ । प्र । वा॒णम् ॥
Mantra 10
क इ॒मं द॒शभि॒र्ममेन्द्रं॑ क्रीणाति धे॒नुभिः॑। य॒दा वृ॒त्राणि॒ जङ्घ॑न॒दथै॑नं मे॒ पुन॑र्ददत् ॥१०॥
कः । इ॒मम् । द॒शऽभिः॑ । मम॑ । इन्द्र॑म् । क्री॒णा॒ति॒ । धे॒नुऽभिः॑ । य॒दा । वृ॒त्राणि॑ । जङ्घ॑नत् । अथ॑ । ए॒न॒म् । मे॒ । पुनः॑ । द॒द॒त् ॥
Mantra 11
नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः। अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११॥
नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः । अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । सदा॒ऽसाः ॥