Mantra 1
यन्न॒ इन्द्रो॑ जुजु॒षे यच्च॒ वष्टि॒ तन्नो॑ म॒हान्क॑रति शु॒ष्म्या चि॑त्। ब्रह्म॒ स्तोमं॑ म॒घवा॒ सोम॑मु॒क्था यो अश्मा॑नं॒ शव॑सा॒ बिभ्र॒देति॑ ॥१॥
यत् । नः॒ । इन्द्रः॑ । जु॒जु॒षे । यत् । च॒ । व॒ष्टि॒ । तत् । नः॒ । म॒हान् । क॒र॒ति॒ । शु॒ष्मी । आ । चि॒त् । ब्रह्म॑ । स्तोम॑म् । म॒घऽवा॑ । सोम॑म् । उ॒क्था । यः । अश्मा॑नम् । शव॑सा । बिभ्र॑त् । एति॑ ॥
Mantra 2
वृषा॒ वृष॑न्धिं॒ चतु॑रश्रि॒मस्य॑न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची॑वान्। श्रि॒ये परु॑ष्णीमु॒षमा॑ण॒ ऊर्णां॒ यस्याः॒ पर्वा॑णि स॒ख्याय॑ वि॒व्ये ॥२॥
वृषा॑ । वृष॑न्धिम् । चतुः॑ऽअश्रिम् । अस्य॑न् । उ॒ग्रः । बा॒हुऽभ्या॑म् । नृऽत॑मः । शची॑ऽवान् । श्रि॒ये । परु॑ष्णीम् । उ॒षमा॑णः । ऊर्णा॑म् । यस्याः॑ । पर्वा॑णि । स॒ख्याय॑ । वि॒व्ये ॥
Mantra 3
यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मैः॑। दधा॑नो॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ द्याममे॑न रेजय॒त्प्र भूम॑ ॥३॥
यः । दे॒वः । दे॒वऽत॑मः । जाय॑मानः । म॒हः । वाजे॑भिः । म॒हत्ऽभिः॑ । च॒ । शुष्मैः॑ । दधा॑नः । वज्र॑म् । बा॒ह्वोः । उ॒शन्त॑म् । द्याम् । अमे॑न । रे॒ज॒य॒त् । प्र । भूम॑ ॥
Mantra 4
विश्वा॒ रोधां॑सि प्र॒वत॑श्च पू॒र्वीर्द्यौर्ऋ॒ष्वाज्जनि॑मन्नेजत॒ क्षाः। आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्परि॑ज्मन्नोनुवन्त॒ वाताः॑ ॥४॥
विश्वा॑ । रोधां॑सि । प्र॒ऽवतः॑ । च॒ । पू॒र्वीः । द्यौः । ऋ॒ष्वात् । जनि॑मन् । रे॒ज॒त॒ । क्षाः । आ । मा॒तरा॑ । भर॑ति । शु॒ष्मी । आ । गोः । नृ॒ऽवत् । परि॑ऽज्मन् । नो॒नु॒व॒न्त॒ । वाताः॑ ॥
Mantra 5
ता तू त॑ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्सव॑नेषु प्र॒वाच्या॑। यच्छू॑र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे॑ण॒ शव॒सावि॑वेषीः ॥५॥
ता । तु । ते॒ । इ॒न्द्र॒ । म॒ह॒तः । म॒हानि॑ । विश्वे॑षु । इत् । सव॑नेषु । प्र॒ऽवाच्या॑ । यत् । शू॒र॒ । धृ॒ष्णो॒ इति॑ । धृ॒ष॒ता । द॒धृ॒ष्वान् । अहि॑म् । वज्रे॑ण । शव॑सा । अवि॑वेषीः ॥
Mantra 6
ता तू ते॑ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्नः॑। अधा॑ ह॒ त्वद्वृ॑षमणो भिया॒नाः प्रसिन्ध॑वो॒ जव॑सा चक्रमन्त ॥६॥
ता । तु । ते॒ । स॒त्या । तु॒वि॒ऽनृ॒म्ण॒ । विश्वा॑ । प्र । धे॒नवः॑ । सि॒स्र॒ते॒ । वृष्णः॑ । ऊध्नः॑ । अध॑ । ह॒ । त्वत् । वृ॒ष॒ऽम॒नः॒ । भि॒या॒नाः । प्र । सिन्ध॑वः । जव॑सा । च॒क्र॒म॒न्त॒ ॥
Mantra 7
अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो॑भिरिन्द्र स्तवन्त॒ स्वसा॑रः। यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यन्द॒यध्यै॑ ॥७॥
अत्र॑ । अह॑ । ते॒ । ह॒रि॒ऽवः॒ । ताः । ऊँ॒ इति॑ । दे॒वीः । अवः॑ऽभिः । इ॒न्द्र॒ । स्त॒व॒न्त॒ । स्वसा॑रः । यत् । सी॒म् । अनु॑ । प्र । मु॒चः । ब॒द्ब॒धा॒नाः । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । स्य॒न्द॒यध्यै॑ ॥
Mantra 8
पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी॑ शशमा॒नस्य॑ श॒क्तिः। अ॒स्म॒द्र्य॑क्शुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ॥८॥
पि॒पी॒ळे । अं॒शुः । मद्यः॑ । न । सिन्धुः॑ । आ । त्वा॒ । शमी॑ । श॒श॒मा॒नस्य॑ । श॒क्तिः । अ॒स्म॒द्र्य॑क् । शु॒शु॒मा॒नस्य॑ । य॒म्याः॒ । आ॒शुः । न । र॒श्मिम् । तु॒वि॒ऽओज॑सम् । गोः ॥
Mantra 9
अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा॑ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां॑सि। अ॒स्मभ्यं॑ वृ॒त्रा सु॒हना॑नि रन्धि ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्य ॥९॥
अ॒स्मे इति॑ । वर्षि॑ष्ठा । कृ॒णु॒हि॒ । ज्येष्ठा॑ । नृ॒म्णानि॑ । स॒त्रा । स॒हु॒रे॒ । सहां॑सि । अ॒स्मभ्य॑म् । वृ॒त्रा । सु॒ऽहना॑नि । र॒न्धि॒ । ज॒हि । वधः॑ । व॒नुषः॑ । मर्त्य॑स्य ॥
Mantra 10
अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमि॑न्द्रा॒स्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न्। अ॒स्मभ्यं॒ विश्वा॑ इषणः॒ पुर॑न्धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ॥१०॥
अ॒स्माकम् । इत् । सु । शृ॒णु॒हि॒ । त्वम् । इ॒न्द्र॒ । अ॒स्मभ्य॑म् । चि॒त्रान् । उप॑ । मा॒हि॒ । वाजा॑न् । अ॒स्मभ्य॑म् । विश्वाः॑ । इ॒ष॒णः॒ । पुर॑म्ऽधीः । अ॒स्माक॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒दाः ॥
Mantra 11
नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः। अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११॥
नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः । अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । सदा॒ऽसाः ॥