Mantra 1
अ॒यं पन्था॒ अनु॑वित्तः पुरा॒णो यतो॑ दे॒वा उ॒दजा॑यन्त॒ विश्वे॑। अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ॥१॥
अ॒यम् । पन्थाः॑ । अनु॑ऽवित्तः । पु॒रा॒णः । यतः॑ । दे॒वाः । उ॒त्ऽअजा॑यन्त । विश्वे॑ । अतः॑ । चि॒त् । आ । ज॒नि॒षी॒ष्ट॒ । प्रऽवृ॑द्धः । मा । मा॒तर॑म् । अ॒मु॒या । पत्त॑वे । क॒रिति॑ कः ॥
Mantra 2
नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता॑ पा॒र्श्वान्निर्ग॑माणि। ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा॑नि॒ युध्यै॑ त्वेन॒ सं त्वे॑न पृच्छै ॥२॥
न । अ॒हम् । अतः॑ । निः । अ॒य॒ । दुः॒ऽगहा॑ । ए॒तत् । ति॒र॒श्चता॑ । पा॒र्श्वात् । निः । ग॒मा॒नि॒ । ब॒हूनि॑ । मे॒ । अकृ॑ता । कर्त्वा॑नि । युध्यै॑ । त्वे॒न॒ । सम् । त्वे॒न॒ । पृ॒च्छै॒ ॥
Mantra 3
प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि। त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिन्द्रः॑ शतध॒न्यं॑ च॒म्वोः॑ सु॒तस्य॑ ॥३॥
प॒रा॒ऽय॒तीम् । मा॒तर॑म् । अनु॑ । अ॒च॒ष्ट॒ । न । न । अनु॑ । गा॒नि॒ । अनु॑ । नु । ग॒मा॒नि॒ । त्वष्टुः॑ । गृ॒हे । अ॒पि॒ब॒त् । सोम॑म् । इन्द्रः॑ । श॒त॒ऽध॒न्य॑म् । च॒म्वोः॑ । सु॒तस्य॑ ॥
Mantra 4
किं स ऋध॑क्कृणव॒द्यं स॒हस्रं॑ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः। न॒ही न्व॑स्य प्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒त ये जनि॑त्वाः ॥४॥
किम् । सः । ऋध॑क् । कृ॒ण॒व॒त् । यम् । स॒हस्र॑म् । मा॒सः । ज॒भार॑ । श॒रदः॑ । च॒ । पू॒र्वीः । न॒ही । नु । आ॒स्य॒ । प्र॒ति॒ऽमान॑म् । अस्ति॑ । अ॒न्तः । ज॒तेषु॑ । उ॒त । ये । जनि॑ऽत्वाः ॥
Mantra 5
अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा॑क॒रिन्द्रं॑ मा॒ता वी॒र्ये॑णा॒ न्यृ॑ष्टम्। अथोद॑स्थात्स्व॒यमत्कं॒ वसा॑न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ॥५॥
अ॒व॒द्यम्ऽइ॑व । मन्य॑माना । गुहा॑ । अ॒कः॒ । इन्द्र॑म् । मा॒ता । वी॒र्ये॑ण । निऽऋ॑ष्टम् । अथ॑ । उत् । अ॒स्था॒त् । स्व॒यम् । अत्क॑म् । वसा॑नः । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ॥
Mantra 6
ए॒ता अ॑र्षन्त्यलला॒भव॑न्तीर्ऋ॒ताव॑रीरिव सं॒क्रोश॑मानाः। ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नन्ति॒ कमापो॒ अद्रिं॑ परि॒धिं रु॑जन्ति ॥६॥
ए॒ताः । अ॒र्ष॒न्ति॒ । अ॒ल॒ला॒ऽभव॑न्तीः । ऋ॒तव॑रीःऽइव । स॒म्ऽक्रोश॑मानाः । ए॒ताः । वि । पृ॒च्छ॒ । किम् । इ॒दम् । भ॒न॒न्ति॒ । कम् । आपः॑ । अद्रि॑म् । प॒रि॒ऽधिम् । रु॒ज॒न्ति॒ ॥
Mantra 7
किमु॑ ष्विदस्मै नि॒विदो॑ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आपः॑। ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ॥७॥
किम् । ऊँ॒ इति॑ । स्वि॒त् । अ॒स्मै॒ । नि॒ऽविदः॑ । भ॒न॒न्त॒ । इन्द्र॑स्य । अ॒व॒द्यम् । दि॒धि॒ष॒न्ते॒ । आपः॑ । मम॑ । ए॒तान् । पु॒त्रः । म॒ह॒ता । व॒धेन॑ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू॑न् ॥
Mantra 8
मम॑च्च॒न त्वा॑ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा॑ कु॒षवा॑ ज॒गार॑। मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒ सह॒सोद॑तिष्ठत् ॥८॥
मम॑त् । च॒न । त्वा॒ । यु॒व॒तिः । प॒रा॒ऽआस॑ । मम॑त् । च॒न । त्वा॒ । कु॒षवा॑ । ज॒गार॑ । मम॑त् । चि॒त् । आपः॑ । शिश॑वे । म॒मृ॒ड्युः॒ । मम॑त् । चि॒त् । इन्द्रः॑ । सह॑सा । उत् । अ॒ति॒ष्ठ॒त् ॥
Mantra 9
मम॑च्च॒न ते॑ मघव॒न्व्यं॑सो निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑। अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो॑ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ॥९॥
मम॑त् । च॒न । ते॒ । म॒घ॒ऽव॒न् । विऽअं॑सः । नि॒ऽवि॒वि॒ध्वान् । अप॑ । हनू॒ इति॑ । ज॒घान॑ । अध॑ । निऽवि॑द्धः । उत्ऽत॑रः । ब॒भू॒वान् । शिरः॑ । दा॒सस्य॑ । सम् । पि॒ण॒क् । व॒धेन॑ ॥
Mantra 10
गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र॑म्। अरी॑ळ्हं व॒त्सं च॒रथा॑य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा॑नम् ॥१०॥
गृ॒ष्टिः । सा॒सू॒व॒ । स्थवि॑रम् । त॒वा॒गाम् । अ॒ना॒धृ॒ष्यम् । वृ॒ष॒भम् । तुम्र॑म् । इन्द्र॑म् । अरी॑ळ्हम् । व॒त्सम् । च॒रथा॑य । मा॒ता । स्व॒यम् । गा॒तुम् । त॒न्वे॑ । इ॒च्छमा॑नम् ॥
Mantra 11
उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः। अथा॑ब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्त्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ॥११॥
उ॒त । मा॒ता । म॒हि॒षम् । अनु॑ । अ॒वे॒न॒त् । अ॒मी इति॑ । त्वा॒ । ज॒ह॒ति॒ । पु॒त्र॒ । दे॒वाः । अथ॑ । अ॒ब्र॒वी॒त् । वृ॒त्रम् । इन्द्रः॑ । ह॒नि॒ष्यन् । सखे॑ । वि॒ष्णो॒ इति॑ । वि॒ऽत॒रम् । वि । क्र॒म॒स्व॒ ॥
Mantra 12
कस्ते॑ मा॒तरं॑ वि॒धवा॑मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चर॑न्तम्। कस्ते॑ दे॒वो अधि॑ मार्डी॒क आ॑सी॒द्यत्प्राक्षि॑णाः पि॒तरं॑ पाद॒गृह्य॑ ॥१२॥
कः । ते॒ । मा॒तर॑म् । वि॒धवा॑म् । अ॒च॒क्र॒त् । श॒युम् । कः । त्वाम् । अ॒जि॒घां॒स॒त् । चर॑न्तम् । कः । ते॒ । दे॒वः । अधि॑ । मा॒र्डी॒के । आ॒सी॒त् । यत् । प्र । अक्षि॑णाः । पि॒तर॑म् । पा॒द॒ऽगृह्य॑ ॥
Mantra 13
अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तार॑म्। अप॑श्यं जा॒यामम॑हीयमाना॒मधा॑ मे श्ये॒नो मध्वा ज॑भार ॥१३॥
अव॑र्त्या । शुनः॑ । आ॒न्त्राणि॑ । पे॒चे॒ । न । दे॒वेषु॑ । वि॒वि॒दे॒ । म॒र्डि॒तार॑म् । अप॑श्यम् । जा॒याम् । अम॑हीयमानाम् । अध॑ । मे॒ । श्ये॒नः । मधु॑ । आ । ज॒भा॒र॒ ॥