Mantra with Swara
यं सी॒मकृ॑ण्व॒न्तम॑से वि॒पृचे॑ ध्रु॒वक्षे॑मा॒ अन॑वस्यन्तो॒ अर्थ॑म्। तं सूर्यं॑ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ॥३॥
यम् । सी॒म् । अकृ॑ण्वन् । तम॑से । वि॒ऽपृचे॑ । ध्रु॒वऽक्षे॑माः । अन॑वऽस्यन्तः । अर्थ॑म् । तम् । सूर्य॑म् । ह॒रितः॑ । स॒प्त । य॒ह्वीः । स्पश॑म् । विश्व॑स्य । जग॑तः । व॒ह॒न्ति॒ ॥
Mantra without Swara
यं सीमकृण्वन्तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम्। तं सूर्यं हरितः सप्त यह्वीः स्पशं विश्वस्य जगतो वहन्ति ॥
यम्। सीम्। अकृण्वन्। तमसे। विऽपृचे। ध्रुवऽक्षेमाः। अनवऽस्यन्तः। अर्थम्। तम्। सूर्यम्। हरितः। सप्त। यह्वीः। स्पशम्। विश्वस्य। जगतः। वहन्ति ॥३॥
Ashtak » 3
Adhyay » 5
Varga » 13
Mantra » 3
