Mantra 1
च॒र्ष॒णी॒धृतं॑ म॒घवा॑नमु॒क्थ्य१॒॑मिन्द्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत। वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे॥
च॒र्ष॒णि॒ऽधृत॑म् । म॒घऽवा॑नम् । उ॒क्थ्य॑म् । इन्द्र॑म् । गिरः॑ । बृ॒ह॒तीः । अ॒भि । अ॒नू॒ष॒त॒ । व॒वृ॒ध॒नम् । पु॒रु॒ऽहू॒तम् । सु॒वृ॒क्तिऽभिः॑ । अम॑र्त्यम् । जर॑माणम् । दि॒वेऽदि॑वे ॥
Mantra 2
श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो॑ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वतः॑। वा॒ज॒सनिं॑ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं॑ धाम॒साच॑मभि॒षाचं॑ स्व॒र्विद॑म् ॥
श॒तऽक्र॑तुम् । अ॒र्ण॒वम् । शा॒किन॑म् । नर॑म् । गिरः॑ । मे॒ । इन्द्र॑म् । उप॑ । य॒न्ति॒ । वि॒श्वतः॑ । वा॒ज॒ऽसनि॑म् । पूः॒ऽभिद॑म् । तूर्णि॑म् । अ॒प्ऽतुर॑म् । धा॒म॒ऽसाच॑म् । अ॒भि॒ऽसाच॑म् । स्वः॒ऽविद॑म् ॥
Mantra 3
आ॒क॒रे वसो॑र्जरि॒ता प॑नस्यतेऽने॒हसः॒ स्तुभ॒ इन्द्रो॑ दुवस्यति। वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं॑ स्तुहि॥
आ॒ऽक॒रे । वसोः॑ । ज॒रि॒ता । प॒न॒स्य॒ते॒ । अ॒ने॒हसः॑ । स्तुभः॑ । इन्द्रः॑ । दु॒व॒स्य॒ति॒ । वि॒वस्व॑तः । सद॑ने । आ । हि । पि॒प्रि॒ये । स॒त्रा॒ऽसह॑म् । अ॒भि॒मा॒ति॒ऽहन॑म् । स्तु॒हि॒ ॥
Mantra 4
नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑। सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो॑ अस्य प्र॒दिव॒ एक॑ ईशे॥
नृ॒णाम् । ऊँ॒ इति॑ । त्वा॒ । नृऽत॑मम् । गीः॒ऽभिः । उ॒क्थैः । अ॒भि । प्र । वी॒रम् । अ॒र्च॒त॒ । स॒ऽबाधः॑ । सम् । सह॑से । पु॒रु॒ऽमा॒यः । जि॒ही॒ते॒ । नमः॑ । अ॒स्य॒ । प्र॒ऽदिवः॑ । एकः॑ । ई॒शे॒ ॥
Mantra 5
पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये॑षु पु॒रू वसू॑नि पृथि॒वी बि॑भर्ति। इन्द्रा॑य॒ द्याव॒ ओष॑धीरु॒तापो॑ र॒यिं॑ र॑क्षन्ति जी॒रयो॒ वना॑नि॥
पू॒र्वीः । अ॒स्य॒ । निः॒ऽसि॑धः॑ । मर्त्ये॑षु । पु॒रु । वसू॑नि । पृ॒थि॒वी । बि॒भ॒र्ति॒ । इन्द्रा॑य । द्यावः॑ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । र॒क्ष॒न्ति॒ । जी॒रयः॑ । वना॑नि ॥
Mantra 6
तुभ्यं॒ ब्रह्मा॑णि॒ गिर॑ इन्द्र॒ तुभ्यं॑ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑। बो॒ध्या॒३॒॑पिरव॑सो॒ नूत॑नस्य॒ सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः॥
तुभ्य॑म् । ब्रह्मा॑णि । गिरः॑ । इ॒न्द्र॒ । तुभ्य॑म् । स॒त्रा । द॒धि॒रे॒ । ह॒रि॒ऽवः॒ । जु॒षस्व॑ । बो॒धि । आ॒पिः । अव॑सः । नूत॑नस्य । सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ । वयः॑ । धाः॒ ॥
Mantra 7
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑। तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः॥
इन्द्र॑ । म॒रु॒त्वः॒ । इ॒ह । पा॒हि॒ । सोम॑म् । यथा॑ । शा॒र्या॒ते । अपि॑बः । सु॒तस्य॑ । तव॑ । प्रऽनी॑ती । तव॑ । शू॒र॒ । शर्म॑न् । आ । वि॒वा॒स॒न्ति॒ । क॒वयः॑ । सु॒ऽय॒ज्ञाः ॥
Mantra 8
स वा॑वशा॒न इ॒ह पा॑हि॒ सोमं॑ म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं नः॑। जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्म॒हे भरा॑य पुरुहूत॒ विश्वे॑॥
सः । वा॒व॒शा॒नः । इ॒ह । पा॒हि॒ । सोम॑म् । म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । सु॒तम् । नः॒ । जा॒तम् । यत् । त्वा॒ । परि॑ । दे॒वाः । अभू॑षन् । म॒हे । भरा॑य । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥
Mantra 9
अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षोऽम॑न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः। तेभिः॑ सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं॑ दा॒शुषः॒ स्वे स॒धस्थे॑॥
अ॒प्ऽतूर्ये॑ । म॒रु॒तः॒ । आ॒पिः । ए॒षः । अम॑न्दन् । इन्द्र॑म् । अनु॑ । दाति॑ऽवाराः । तेभिः॑ । सा॒कम् । पि॒ब॒तु॒ । वृ॒त्र॒ऽखा॒दः । सु॒तम् । सोम॑म् । दा॒शुषः॑ । स्वे । स॒धऽस्थे॑ ॥
Mantra 10
इ॒दं ह्यन्वोज॑सा सु॒तं रा॑धानां पते। पिबा॒ त्व१॒॑स्य गि॑र्वणः॥
इ॒दम् । हि । अनु॑ । ओज॑सा । सु॒तम् । रा॒धा॒ना॒म् । प॒ते॒ । पिब॑ । तु । अ॒स्य । गि॒र्व॒णः॒ ॥
Mantra 11
यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्व॑म्। स त्वा॑ ममत्तु सो॒म्यम्॥
यः । ते॒ । अनु॑ । स्व॒धाम् । अस॑त् । सु॒ते । नि । य॒च्छ॒ । त॒न्व॑म् । सः । त्वा॒ । म॒म॒त्तु॒ । सो॒म्यम् ॥
Mantra 12
प्र ते॑ अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म॑णा॒ शिरः॑। प्र बा॒हू शू॑र॒ राध॑से॥
प्र । ते॒ । अ॒श्नो॒तु॒ । कु॒क्ष्योः । प्र । इ॒न्द्र॒ । ब्रह्म॑णा । शिरः॑ । प्र । बा॒हू इति॑ । शू॒र॒ । राध॑से ॥