Mantra with Swara
अ॒यं ते॑ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः। जु॒षा॒ण इ॑न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ॑म्॥
अ॒यम् । ते॒ । अ॒स्तु॒ । ह॒र्य॒तः । सोमः॑ । आ । हरि॑ऽभिः । सु॒तः । जु॒षा॒णः । इ॒न्द्र॒ । हरि॑ऽभिः । नः॒ । आ । ग॒हि॒ । आ । ति॒ष्ठ॒ । हरि॑तम् । रथ॑म् ॥
Mantra without Swara
अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः। जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम्॥
अयम्। ते। अस्तु। हर्यतः। सोमः। आ। हरिऽभिः। सुतः। जुषाणः। इन्द्र। हरिऽभिः। नः। आ। गहि। आ। तिष्ठ। हरितम्। रथम्॥
Ashtak » 3
Adhyay » 3
Varga » 8
Mantra » 1
