Mantra 1
अ॒भि तष्टे॑व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः। अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि क॒वीँरि॑च्छामि सं॒दृशे॑ सुमे॒धाः॥
अ॒भि । तष्टा॑ऽइव । दी॒ध॒य॒ । म॒नी॒षाम् । अत्यः॑ । न । वा॒जी । सु॒ऽधुरः॑ । जिहा॑नः । अ॒भि । प्रि॒याणि॑ । मर्मृ॑शत् । परा॑णि । क॒वीन् । इ॒च्छा॒मि॒ । स॒म्ऽदृशे॑ । सु॒ऽमे॒धाः ॥
Mantra 2
इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम्। इ॒मा उ॑ ते प्र॒ण्यो॒३॒॑ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन्॥
इ॒ना । उ॒त । पृ॒च्छ॒ । जनि॑म । क॒वी॒नाम् । म॒नः॒ऽधृतः॑ । सु॒ऽकृतः॑ । त॒क्ष॒त॒ । द्याम् । इ॒माः । ऊँ॒ इति॑ । ते॒ । प्र॒ऽन्यः॑ । वर्ध॑मानाः । मनः॑ऽवाताः । अध॑ । नु । धर्म॑णि । ग्म॒न् ॥
Mantra 3
नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम॑ञ्जन्। सं मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः॥
नि । सी॒म् । इत् । अत्र॑ । गुह्या॑ । दधा॑नाः । उ॒त । क्ष॒त्राय॑ । रोद॑सी॒ इति॑ । सम् । अ॒ञ्ज॒न् । सम् । मात्रा॑भिः । म॒मि॒रे । ये॒मुः । उ॒र्वी इति॑ । अ॒न्तः । म॒ही । समृ॑ते॒ इति॒ सम्ऽऋ॑ते । धाय॑से । धुः ॥
Mantra 4
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः। म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ॥
आ॒ऽतिष्ठ॑न्तम् । परि॑ । विश्वे॑ । अ॒भू॒ष॒न् । श्रियः॑ । वसा॑नः । च॒र॒ति॒ । स्वऽरो॑चिः । म॒हत् । तत् । वृष्णः॑ । असु॑रस्य । नाम॑ । आ । वि॒श्वऽरू॑पः । अ॒मृता॑नि । त॒स्थौ॒ ॥
Mantra 5
असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑नि॒मा अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः। दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे॥
असू॑त । पूर्वः॑ । वृ॒ष॒भः । ज्याया॑न् । इ॒माः । अ॒स्य॒ । शु॒रुधः॑ । स॒न्ति॒ । पू॒र्वीः । दिवः॑ । न॒पा॒ता॒ । वि॒दथ॑स्य । धी॒भिः । क्ष॒त्रम् । रा॒जा॒ना॒ । प्र॒ऽदिवः॑ । द॒धा॒थे॒ इति॑ ॥
Mantra 6
त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथः॒ सदां॑सि। अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते ग॑न्ध॒र्वाँ अपि॑ वा॒युके॑शान्॥
त्रीणि॑ । रा॒जा॒ना॒ । वि॒दथे॑ । पु॒रूणि॑ । परि॑ । विश्वा॑नि । भू॒ष॒थः॒ । सदां॑सि । अप॑श्यम् । अत्र॑ । मन॑सा । ज॒ग॒न्वान् । व्र॒ते । ग॒न्ध॒र्वान् । अपि॑ । वा॒युऽके॑शान् ॥
Mantra 7
तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः। अ॒न्यद॑न्यदसु॒र्यं१॒॑ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन्॥
तत् । इत् । नु । अ॒स्य॒ । वृ॒ष॒भस्य॑ । धे॒नोः । आ । नाम॑ऽभिः । म॒मि॒रे॒ । सक्म्य॑म् । गोः । अ॒न्यत्ऽअ॑न्यत् । अ॒सु॒र्य॑म् । वसा॑नाः । नि । मा॒यिनः॑ । म॒मि॒रे॒ । रू॒पम् । अ॒स्मि॒न् ॥
Mantra 8
तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत्। आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे॥
तत् । इत् । नु । अ॒स्य॒ । स॒वि॒तुः । नकिः॑ । मे॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् । आ । सु॒ऽस्तु॒ती । रोद॑सी॒ इति॑ । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे । अपि॑ऽइव । योषा॑ । जनि॑मानि । व॒व्रे॒ ॥
Mantra 9
यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातम्। गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑॥
यु॒वम् । प्र॒त्नस्य॑ । सा॒ध॒थः॒ । म॒हः । यत् । दैवी॑ । स्व॒स्तिः । परि॑ । नः॒ । स्या॒त॒म् । गो॒पाजि॑ह्वस्य । त॒स्थुषः॑ । विऽरू॑पा । विश्वे॑ । प॒श्य॒न्ति॒ । मा॒यिनः॑ । कृ॒तानि॑ ॥
Mantra 10
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ। शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम्॥
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥