Mantra with Swara
अग्ने॑ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं॑ सहसः सून॒वाहु॑तम्। अथा॑ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्तम॒मृते॑षु॒ जागृ॑विम्॥
अग्ने॑ । तृ॒तीये॑ । सव॑ने । हि । कानि॑षः । पुरो॒ळाश॑म् । स॒ह॒सः॒ । सू॒नो॒ इति॑ । आऽहु॑तम् । अथ॑ । दे॒वेषु॑ । अ॒ध्व॒रम् । वि॒प॒न्यया॑ । धाः । रत्न॑ऽवन्तम् । अ॒मृते॑षु । जागृ॑विम् ॥
Mantra without Swara
अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम्। अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम्॥
अग्ने। तृतीये। सवने। हि। कानिषः। पुरोळाशम्। सहसः। सूनो इति। आऽहुतम्। अथ। देवेषु। अध्वरम्। विपन्यया। धाः। रत्नऽवन्तम्। अमृतेषु। जागृविम्॥
Ashtak » 3
Adhyay » 1
Varga » 31
Mantra » 5
