Mantra 1
वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्म॑न्तो अनुष॒त्यं स्व॒र्विद॑म्। सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे॥
वै॒श्वा॒न॒रम् । मन॑सा । अ॒ग्निम् । नि॒ऽचाय्य॑ । ह॒विष्म॑न्तः । अ॒नु॒ऽस॒त्यम् । स्वः॒ऽविद॑म् । सु॒ऽदानु॑म् । दे॒वम् । र॒थि॒रम् । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । र॒ण्वम् । कु॒शि॒कासः॑ । ह॒वा॒म॒हे॒ ॥
Mantra 2
तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒क्थ्य॑म्। बृह॒स्पतिं॒ मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यद॑म्॥
तम् । शु॒भ्रम् । अ॒ग्निम् । अव॑से । ह॒वा॒म॒हे॒ । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा॑नम् । उ॒क्थ्य॑म् । बृह॒स्पति॑म् । मनु॑षः । दे॒वऽता॑तये । विप्र॑म् । श्रोता॑रम् । अति॑थिम् । र॒घु॒ऽस्यद॑म् ॥
Mantra 3
अश्वो॒ न क्रन्द॒ञ्जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे। स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः॥
अश्वः॑ । न । क्रन्द॑न् । जनि॑ऽभिः । सम् । इ॒ध्य॒ते॒ । वै॒श्वा॒न॒रः । कु॒शि॒केभिः॑ । यु॒गेऽयु॑गे । सः । नः॒ । अ॒ग्निः । सु॒ऽवीर्य॑म् । सु॒ऽअश्व्यम् । दधा॑तु । रत्न॑म् । अ॒मृते॑षु॑ । जागृ॑विः ॥
Mantra 4
प्र य॑न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे संमि॑श्लाः॒ पृष॑तीरयुक्षत। बृ॒ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दसः॒ प्र वे॑पयन्ति॒ पर्व॑ताँ॒ अदा॑भ्याः॥
प्र । य॒न्तु॒ । वाजाः॑ । तवि॑षीभिः । अ॒ग्नयः॑ । शु॒भे । सम्ऽमि॑श्लाः । पृष॑तीः । अ॒यु॒क्ष॒त॒ । बृ॒ह॒त्ऽउक्षः॑ । म॒रुतः॑ । वि॒श्वऽवे॑दसः । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । अदा॑भ्याः ॥
Mantra 5
अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम्। ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः॥
अ॒ग्नि॒ऽश्रियः॑ । म॒रुतः॑ । वि॒श्वऽकृ॑ष्टयः । आ । त्वे॒षम् । उ॒ग्रम् । अवः॑ । ई॒म॒हे॒ । व॒यम् । ते । स्वा॒निनः॑ । रु॒द्रियाः॑ । व॒र्षऽनि॑र्निजः । सिं॒हाः । न । हे॒षऽक्र॑तवः । सु॒ऽदान॑वः ॥
Mantra 6
व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं॑ म॒रुता॒मोज॑ ईमहे। पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गन्ता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीराः॑॥
व्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ । अ॒ग्नेः । भाम॑म् । म॒रुता॑म् । ओजः॑ । ई॒म॒हे॒ । पृष॑त्ऽअश्वासः । अ॒न॒व॒भ्रऽरा॑धसः । गन्ता॑रः । य॒ज्ञम् । वि॒दथे॑षु । धीराः॑ ॥
Mantra 7
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन्। अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑॥
अ॒ग्निः । अ॒स्मि॒ । जन्म॑ना । जा॒तऽवे॑दाः । घृ॒तम् । मे॒ । चक्षुः॑ । अ॒मृत॑म् । मे॒ । आ॒सन् । अ॒र्कः । त्रि॒ऽधातुः॑ । रज॑सः । वि॒ऽमानः॑ । अज॑स्रः । घ॒र्मः । ह॒विः । अ॒स्मि॒ । नाम॑ ॥
Mantra 8
त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॒॑र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन्। वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत्॥
त्रि॒ऽभिः । प॒वित्रैः॑ । अपु॑पोत् । हि । अ॒र्कम् । हृ॒दा । म॒तिम् । ज्योतिः॑ । अनु॑ । प्र॒ऽजा॒नन् । वर्षि॑ष्ठम् । रत्न॑म् । अ॒कृ॒त॒ । स्व॒धाभिः॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । परि॑ । अ॒प॒श्य॒त् ॥
Mantra 9
श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चितं॑ पि॒तरं॒ वक्त्वा॑नाम्। मे॒ळिं मद॑न्तं पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाच॑म्॥
श॒तऽधा॑रम् । उत्स॑म् । अक्षी॑यमाणम् । वि॒पः॒ऽचित॑म् । पि॒तर॑म् । वक्त्वा॑नाम् । मे॒ळिम् । मद॑न्तम् । पि॒त्रोः । उ॒पऽस्थे॑ । तम् । रो॒द॒सी॒ इति॑ । पि॒पृ॒त॒म् । स॒त्य॒ऽवाच॑म् ॥