Mantra with Swara
नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्ना॑म्। दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि॥
नि । त्वा॒ । द॒धे॒ । वरे॑ । आ । पृ॒थि॒व्याः । इळा॑याः । प॒दे । सु॒ऽदि॒न॒ऽत्वे । अह्ना॑म् । दृ॒षत्ऽव॑त्याम् । मानु॑षे । आ॒प॒याया॑म् । सर॑स्वत्याम् । रे॒वत् । अ॒ग्ने॒ । दि॒दी॒हि॒ ॥
Mantra without Swara
नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम्। दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि॥
नि। त्वा। दधे। वरे। आ। पृथिव्याः। इळायाः। पदे। सुऽदिनऽत्वे। अह्नाम्। दृषत्ऽवत्याम्। मानुषे। आपयायाम्। सरस्वत्याम्। रेवत्। अग्ने। दिदीहि॥
Ashtak » 3
Adhyay » 1
Varga » 23
Mantra » 4
