Mantra 1
वै॒श्वा॒न॒राय॑ धि॒षणा॑मृता॒वृधे॑ घृ॒तं न पू॒तम॒ग्नये॑ जनामसि। द्वि॒ता होता॑रं॒ मनु॑षश्च वा॒घतो॑ धि॒या रथं॒ न कुलि॑शः॒ समृ॑ण्वति॥
वै॒श्वा॒न॒राय॑ । धि॒षणा॑म् । ऋ॒त॒ऽवृधे॑ । घृ॒तम् । न । पू॒तम् । अ॒ग्नये॑ । ज॒ना॒म॒सि॒ । द्वि॒ता । होता॑रम् । मनु॑षः । च॒ । वा॒घतः॑ । धि॒या । रथ॑म् । न । कुलि॑शः । सम् । ऋ॒ण्व॒ति॒ ॥
Mantra 2
स रो॑चयज्ज॒नुषा॒ रोद॑सी उ॒भे स मा॒त्रोर॑भवत्पु॒त्र ईड्यः॑। ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो॑हितो दू॒ळभो॑ वि॒शामति॑थिर्वि॒भाव॑सुः॥
सः । रो॒च॒य॒त् । ज॒नुषा॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । सः । मा॒त्रोः । अ॒भ॒व॒त् । पु॒त्रः । ईड्यः॑ । ह॒व्य॒ऽवाट् । अ॒ग्निः । अ॒जरः॑ । चनः॑ऽहितः । दुः॒ऽदभः॑ । वि॒शाम् । अति॑थिः । वि॒भाऽव॑सुः ॥
Mantra 3
क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध॑र्मणि दे॒वासो॑ अ॒ग्निं ज॑नयन्त॒ चित्ति॑भिः। रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं॑ सनि॒ष्यन्नुप॑ ब्रुवे॥
क्रत्वा॑ । दक्ष॑स्य । तरु॑षः । विऽध॑र्मणि । दे॒वासः॑ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । चित्ति॑ऽभिः । रु॒रु॒चा॒नम् । भा॒नुना॑ । ज्योति॑षा । म॒हाम् । अत्य॑म् । न । वाज॑म् । स॒नि॒ष्यन् । उप॑ । ब्रु॒वे॒ ॥
Mantra 4
आ म॒न्द्रस्य॑ सनि॒ष्यन्तो॒ वरे॑ण्यं वृणी॒महे॒ अह्र॑यं॒ वाज॑मृ॒ग्मिय॑म्। रा॒तिं भृगू॑णामु॒शिजं॑ क॒विक्र॑तुम॒ग्निं राज॑न्तं दि॒व्येन॑ शो॒चिषा॑॥
आ । म॒न्द्रस्य॑ । स॒नि॒ष्यन्तः॑ । वरे॑ण्यम् । वृ॒णी॒महे॑ । अह्र॑यम् । वाज॑म् । ऋ॒ग्मिय॑म् । रा॒तिम् । भृगू॑णाम् । उ॒शिज॑म् । क॒विऽक्र॑तुम् । अ॒ग्निम् । राज॑न्तम् । दि॒व्येन॑ । शो॒चिषा॑ ॥
Mantra 5
अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब॑र्हिषः। य॒तस्रु॑चः सु॒रुचं॑ वि॒श्वदे॑व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसा॑म्॥
अ॒ग्निम् । सु॒म्नाय॑ । द॒धि॒रे॒ । पु॒रः । जनाः॑ । वाज॑ऽश्रवसम् । इ॒ह । वृ॒क्तऽब॑र्हिषः । य॒तऽस्रु॑चः । सु॒ऽरुच॑म् । वि॒श्वऽदे॑व्यम् । रु॒द्रम् । य॒ज्ञाना॑म् । साध॑त्ऽइष्टिम् । अ॒पसा॑म् ॥
Mantra 6
पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत॑र्य॒ज्ञेषु॑ वृ॒क्तब॑र्हिषो॒ नरः॑। अग्ने॒ दुव॑ इ॒च्छमा॑नास॒ आप्य॒मुपा॑सते॒ द्रवि॑णं धेहि॒ तेभ्यः॑॥
पाव॑कऽशोचे । तव॑ । हि । क्षय॑म् । परि॑ । होतः॑ । य॒ज्ञेषु॑ । वृ॒क्तऽब॑र्हिषः । नरः॑ । अग्ने॑ । दुवः॑ । इ॒च्छमा॑नासः । आप्य॑म् । उप॑ । आ॒स॒ते॒ । द्रवि॑णम् । धे॒हि॒ । तेभ्यः॑ ॥
Mantra 7
आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन्। सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः॥
आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । आ । स्वः॑ । म॒हत् । जा॒तम् । यत् । ए॒न॒म् । अ॒पसः॑ । अधा॑रयन् । सः । अ॒ध्व॒राय॑ । परि॑ । नी॒य॒ते॒ । क॒विः । अत्यः॑ । न । वाज॑ऽसातये । चनः॑ऽहितः ॥
Mantra 8
न॒म॒स्यत॑ ह॒व्यदा॑तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं॑ जा॒तवे॑दसम्। र॒थीर्ऋ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना॑मभवत्पु॒रोहि॑तः॥
न॒म॒स्यत॑ । ह॒व्यऽदा॑तिम् । सु॒ऽअ॒ध्व॒रम् । दु॒व॒स्यत॑ । दभ्य॑म् । जा॒तऽवे॑दसम् । र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । विऽच॑र्षणिः । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः ॥
Mantra 9
ति॒स्रो य॒ह्वस्य॑ स॒मिधः॒ परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः। तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी॑यतुः॥
ति॒स्रः । य॒ह्वस्य॑ । स॒म्ऽइधः॑ । परि॑ऽज्मनः । अ॒ग्नेः । अ॒पु॒न॒न् । उ॒शिजः॑ । अमृ॑त्यवः । तासा॑म् । एका॑म् । अद॑धुः । मर्त्ये॑ । भुज॑म् । ऊँ॒ इति॑ । लो॒कम् । ऊँ॒ इति॑ । द्वे इति॑ । उप॑ । जा॒मिम् । ई॒य॒तुः॒ ॥
Mantra 10
वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिषः॒ सं सी॑मकृण्व॒न्त्स्वधि॑तिं॒ न तेज॑से। स उ॒द्वतो॑ नि॒वतो॑ याति॒ वेवि॑ष॒त्स गर्भ॑मे॒षु भुव॑नेषु दीधरत्॥
वि॒शाम् । क॒विम् । वि॒श्पति॑म् । मानु॑षीः । इषः॑ । सम् । सी॒म् । अ॒कृ॒ण्व॒न् । स्वऽधि॑तिम् । न । तेज॑से । सः । उ॒त्ऽवतः॑ । नि॒ऽवतः॑ । या॒ति॒ । वेवि॑षत् । सः । गर्भ॑म् । ए॒षु । भुव॑नेषु । दी॒ध॒र॒त् ॥
Mantra 11
स जि॑न्वते ज॒ठरे॑षु प्रजज्ञि॒वान्वृषा॑ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः। वै॒श्वा॒न॒रः पृ॑थृ॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे॑॥
सः । जि॒न्व॒ते॒ । ज॒ठरे॑षु । प्र॒ज॒ज्ञि॒ऽवान् । वृषा॑ । चि॒त्रेषु॑ । नान॑दत् । न । सिं॒हः । वै॒श्वा॒न॒रः । पृ॒थु॒ऽपाजाः॑ । अम॑र्त्यः । वसु॑ । रत्ना॑ । दय॑मानः । वि । दा॒शुषे॑ ॥
Mantra 12
वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः। स पू॑र्व॒वज्ज॒नय॑ञ्ज॒न्तवे॒ धनं॑ समा॒नमज्मं॒ पर्ये॑ति॒ जागृ॑विः॥
वै॒श्वा॒न॒रः । प्र॒त्नऽथा॑ । नाक॑म् । आ । अ॒रु॒ह॒त् । दि॒वः । पृ॒ष्ठम् । भन्द॑मानः । सु॒मन्म॑ऽभिः । सः । पू॒र्व॒ऽवत् । ज॒नय॑न् । ज॒न्तवे॑ । धन॑म् । स॒मा॒नम् । अज्म॑म् । परि॑ । ए॒ति॒ । जागृ॑विः ॥
Mantra 13
ऋ॒तावा॑नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॒॑मा यं द॒धे मा॑त॒रिश्वा॑ दि॒वि क्षय॑म्। तं चि॒त्रया॑मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से॥
ऋ॒तऽवा॑नम् । य॒ज्ञिय॑म् । विप्र॑म् । उ॒क्थ्य॑म् । आ । यम् । द॒धे । मा॒त॒रिश्वा॑ । दि॒वि । क्षय॑म् । तम् । चि॒त्रऽया॑मम् । हरि॑ऽकेशम् । ई॒म॒हे॒ । सु॒ऽदी॒तिम् । अ॒ग्निम् । सु॒वि॒ताय॑ । नव्य॑से ॥
Mantra 14
शुचिं॒ न याम॑न्निषि॒रं स्व॒र्दृशं॑ के॒तुं दि॒वो रो॑चन॒स्थामु॑ष॒र्बुध॑म्। अ॒ग्निं मू॒र्धानं॑ दि॒वो अप्र॑तिष्कुतं॒ तमी॑महे॒ नम॑सा वा॒जिनं॑ बृ॒हत्॥
शुचि॑म् । न । याम॑न् । इ॒षि॒रम् । स्वः॒ऽदृश॑म् । के॒तुम् । दि॒वः । रो॒च॒न॒ऽस्थाम् । उ॒षः॒ऽबुध॑म् । अ॒ग्निम् । मू॒र्धान॑म् । दि॒वः । अप्र॑तिऽस्कुतम् । तम् । ई॒म॒हे॒ । नम॑सा । वा॒जिन॑म् । बृ॒हत् ॥
Mantra 15
म॒न्द्रं होता॑रं॒ शुचि॒मद्व॑याविनं॒ दमू॑नसमु॒क्थ्यं॑ वि॒श्वच॑र्षणिम्। रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई॑महे॥
म॒न्द्रम् । होता॑रम् । शुचि॑म् । अद्व॑याविनम् । दमू॑नसम् । उ॒क्थ्य॑म् । वि॒श्वऽच॑र्षणिम् । रथ॑म् । न । चि॒त्रम् । वपु॑षाय । द॒र्श॒तम् । मनुः॑ऽहितम् । सद॑म् । इत् । रा॒यः । ई॒म॒हे॒ ॥