Mantra with Swara
त्वं नो॑ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः। जन्मे॑व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं॑ मे अग्ने त॒न्वा॑ सुजात॥
त्वम् । नः॒ । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । त्वम् । सूरे॑ । उत्ऽइ॑ते । बो॒धि॒ । गो॒पाः । जन्म॑ऽइव । नित्य॑म् । तन॑यम् । जु॒ष॒स्व॒ । स्तोम॑म् । मे॒ । अ॒ग्ने॒ । त॒न्वा॑ । सु॒ऽजा॒त॒ ॥
Mantra without Swara
त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः। जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात॥
त्वम्। नः। अस्याः। उषसः। विऽउष्टौ। त्वम्। सूरे। उत्ऽइते। बोधि। गोपाः। जन्मऽइव। नित्यम्। तनयम्। जुषस्व। स्तोमम्। मे। अग्ने। तन्वा। सुऽजात॥
Ashtak » 3
Adhyay » 1
Varga » 15
Mantra » 2
