Mantra with Swara
प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद॑न्त ऋतु॒था श॒कुन्त॑यः। उ॒भे वाचौ॑ वदति साम॒गाइ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति॥
प्र॒ऽद॒क्षि॒णित् । अ॒भि । गृ॒ण॒न्ति॒ । का॒रवः॑ । वयः॑ । वद॑न्तः । ऋ॒तु॒ऽथा । श॒कुन्त॑यः । उ॒भे इति॑ । वाचौ॑ । व॒द॒ति॒ । सा॒म॒ऽगाःऽइ॑व । गा॒य॒त्रम् । च॒ । त्रैस्तु॑भम् । च॒ । अनु॑ । रा॒ज॒ति॒ ॥
Mantra without Swara
प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः। उभे वाचौ वदति सामगाइव गायत्रं च त्रैष्टुभं चानु राजति॥
प्रऽदक्षिणित्। अभि। गृणन्ति। कारवः। वयः। वदन्तः। ऋतुऽथा। शकुन्तयः। उभे इति। वाचौ। वदति। सामऽगाःऽइव। गायत्रम्। च। त्रैस्तुभम्। च। अनु। राजति॥
Ashtak » 2
Adhyay » 8
Varga » 12
Mantra » 1
