Mantra 1
वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि। नि॒युत्वा॒न्त्सोम॑पीतये॥
वायो॒ इति॑ । ये । ते॒ । स॒ह॒स्रिणः॑ । रथा॑सः । तेभिः॑ । आ । ग॒हि॒ । नि॒युत्वा॑न् । सोम॑ऽपीतये ॥
Mantra 2
नि॒युत्वा॑न्वाय॒वा ग॑ह्य॒यं शु॒क्रो अ॑यामि ते। गन्ता॑सि सुन्व॒तो गृ॒हम्॥
नि॒युत्वा॑न् । वा॒यो॒ इति॑ । आ । ग॒हि॒ । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ । गन्ता॑ । अ॒सि॒ । सु॒न्व॒तः । गृ॒हम् ॥
Mantra 3
शु॒क्रस्या॒द्य गवा॑शिर॒ इन्द्र॑वायू नि॒युत्व॑तः। आ या॑तं॒ पिब॑तं नरा॥
शु॒क्रस्य॑ । अ॒द्य । गोऽआ॑शिरः । इन्द्र॑वायू॒ इति॑ । नि॒युत्व॑तः । आ । या॒त॒म् । पिब॑तम् । न॒रा॒ ॥
Mantra 4
अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा। ममेदि॒ह श्रु॑तं॒ हव॑म्॥
अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ । मम॑ । इत् । इ॒ह । श्र॒त॒म् । हव॑म् ॥
Mantra 5
राजा॑ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे। स॒हस्र॑स्थूण आसाते॥
राजा॑नौ । अन॑भिऽद्रुहा । ध्रु॒वे । सद॑सि । उ॒त्ऽत॒मे । स॒हस्र॑ऽस्थूणे । आ॒सा॒ते॒ इति॑ ॥
Mantra 6
ता स॒म्राजा॑ घृ॒तासु॑ती आदि॒त्या दानु॑न॒स्पती॑। सचे॑ते॒ अन॑वह्वरम्॥
ता । स॒म्ऽराजा॑ । घ्ृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । आ॒दि॒त्या । दानु॑नः । पती॑ । सचे॑ते॒ इति॑ । अन॑वऽह्वरम् ॥
Mantra 7
गोम॑दू॒ षु ना॑स॒त्याऽश्वा॑वद्यातमश्विना। व॒र्ती रु॑द्रा नृ॒पाय्य॑म्॥
गोऽम॑त् । ऊँ॒ इति॑ । सु । ना॒स॒त्या॒ । अस्व॑ऽवत् । या॒त॒म् । अ॒श्वि॒ना॒ । व॒र्तिः । रु॒द्रा॒ । नृ॒ऽपाय्य॑म् ॥
Mantra 8
न यत्परो॒ नान्त॑र आद॒धर्ष॑द्वृषण्वसू। दुः॒शंसो॒ मर्त्यो॑ रि॒पुः॥
न । यत् । परः॑ । न । अन्त॑रः । आ॒ऽद॒धर्ष॑त् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । दुः॒ऽशंसः॑ । मर्त्यः॑ । रि॒पुः ॥
Mantra 9
ता न॒ आ वो॑ळ्हमश्विना र॒यिं पि॒शङ्ग॑संदृशम्। धिष्ण्या॑ वरिवो॒विद॑म्॥
ता । नः॒ । आ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ । र॒यिम् । पि॒शङ्ग॑ऽसन्दृशम् । धिष्ण्या॑ । व॒रि॒वः॒ऽविद॑म् ॥
Mantra 10
इन्द्रो॑ अ॒ङ्ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत्। स हि स्थि॒रो विच॑र्षणिः॥
इन्द्रः॑ । अ॒ङ्ग । म॒हत् । भ॒यम् । अ॒भि । सत् । अप॑ । चु॒च्य॒व॒त् । सः । हि । स्थि॒रः । विऽच॑र्षणिः ॥
Mantra 11
इन्द्र॑श्च मृ॒ळ्या॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत्। भ॒द्रं भ॑वाति नः पु॒रः॥
इन्द्रः॑ । च॒ । मृ॒ळया॑ति । नः॒ । न । नः॒ । प॒श्चात् । अ॒घम् । न॒श॒त् । भ॒द्रम् । भ॒वा॒ति॒ । नः॒ । पु॒रः ॥
Mantra 12
इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत्। जे॒ता शत्रू॒न् विऽच॑र्षणिः॥
इन्द्रः॑ । आशा॑भ्यः । परि॑ । सर्वा॑भ्यः । अभ॑यम् । क॒र॒त् । जेता॑ । शत्रू॑न् । विऽच॑र्षणिः ॥
Mantra 13
विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव॑म्। एदं ब॒र्हिर्नि षी॑दत॥
विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ । शृ॒णु॒त । मे॒ । इ॒मम् । हव॑म् । आ । इ॒दम् । ब॒र्हिः । नि । सी॒द॒त॒ ॥
Mantra 14
ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो॑त्रेषु मत्स॒रः। ए॒तं पि॑बत॒ काम्य॑म्॥
ती॒व्रः । वः॒ । मधु॑ऽमान् । अ॒यम् । शु॒नऽहो॑त्रेषु । म॒त्स॒रः । ए॒तम् । पि॒ब॒त॒ । काम्य॑म् ॥
Mantra 15
इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑सः॒ पूष॑रातयः। विश्वे॒ मम॑ श्रुता॒ हव॑म्॥
इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूष॑ऽरातयः । विश्वे॑ । मम॑ । श्रु॒त॒ । हव॑म् ॥
Mantra 16
अम्बि॑तमे॒ नदी॑तमे॒ देवि॑तमे॒ सर॑स्वति। अ॒प्र॒श॒स्ताइ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि॥
अम्बि॑ऽतमे । नदी॑ऽतमे । देवि॑ऽतमे । सर॑स्वति । अ॒प्र॒श॒स्ताःऽइ॑व । स्म॒सि॒ । प्रऽश॑स्तिम् । अ॒म्ब॒ । नः॒ । कृ॒धि॒ ॥
Mantra 17
त्वे विश्वा॑ सरस्वति श्रि॒तायूं॑षि दे॒व्याम्। शु॒नहो॑त्रेषु मत्स्व प्र॒जां दे॑वि दिदिड्ढि नः॥
त्वे । विश्वा॑ । स॒र॒स्व॒ति॒ । श्रि॒ता । आयूं॑षि । दे॒व्याम् । शु॒नऽहो॑त्रेषु । म॒त्स्व॒ । प्र॒ऽजाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥
Mantra 18
इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति। या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति॥
इ॒मा । ब्रह्म॑ । स॒र॒स्व॒ति॒ । जु॒षस्व॑ । वा॒जि॒नी॒व॒ति॒ । या । ते॒ । मन्म॑ । गृ॒त्स॒ऽम॒दाः । ऋ॒त॒ऽव॒रि॒ । प्रि॒या । दे॒वेषु॑ । जुह्व॑ति ॥
Mantra 19
प्रेतां॑ य॒ज्ञस्य॑ शं॒भुवा॑ यु॒वामिदा वृ॑णीमहे। अ॒ग्निं च॑ हव्य॒वाह॑नम्॥
प्र । इ॒ता॒म् । य॒ज्ञस्य॑ । श॒म्ऽभुवा॑ । यु॒वाम् । इत् । आ । वृ॒णी॒म॒हे॒ । अ॒ग्निम् । च॒ । ह॒व्य॒ऽवाह॑नम् ॥
Mantra 20
द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म्। य॒ज्ञं दे॒वेषु॑ यच्छताम्॥
द्यावा॑ । नः॒ । पृ॒थि॒वी इति॑ । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् । य॒ज्ञम् । दे॒वेषु॑ । य॒च्छ॒ता॒म् ॥
Mantra 21
आ वा॑मु॒पस्थ॑मद्रुहा दे॒वाः सी॑दन्तु य॒ज्ञियाः॑। इ॒हाद्य सोम॑पीतये॥
आ । वा॒म् । उ॒पऽस्थ॑म् । अ॒द्रु॒हा॒ । दे॒वाः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ । इ॒ह । अ॒द्य । सोम॑ऽपीतये ॥