Mantra with Swara
अ॒र्वाञ्च॑म॒द्य य॒य्यं॑ नृ॒वाह॑णं॒ रथं॑ युञ्जाथामि॒ह वां॑ वि॒मोच॑नम्। पृ॒ङ्क्तं ह॒वींषि॒ मधु॒ना हि कं॑ ग॒तमथा॒ सोमं॑ पिबतं वाजिनीवसू॥
अ॒र्वाञ्च॑म् । अ॒द्य । य॒य्य॑म् । नृ॒ऽवाह॑नम् । रथ॑म् । यु॒ञ्जा॒था॒म् । इ॒ह । वा॒म् । वि॒ऽमोच॑नम् । पृ॒ङ्क्तम् । ह॒वींषि । म॒धु॒ना । आ । हि । क॒म् । ग॒तम् । अथ॑ । सोम॑म् । पि॒ब॒त॒म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥
Mantra without Swara
अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम्। पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू॥
अर्वाञ्चम्। अद्य। यय्यम्। नृऽवाहनम्। रथम्। युञ्जाथाम्। इह। वाम्। विऽमोचनम्। पृङ्क्तम्। हवींषि। मधुना। आ। हि। कम्। गतम्। अथ। सोमम्। पिबतम्। वाजिनीवसू इति वाजिनीऽवसू॥
Ashtak » 2
Adhyay » 8
Varga » 1
Mantra » 5
