Mantra with Swara
ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः। तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब॥
ए॒षः । स्यः । ते॒ । त॒न्वः॑ । नृ॒म्ण॒ऽवर्ध॑नः । सहः॑ । ओजः॑ । प्र॒ऽदिवि॑ । बा॒ह्वोः । हि॒तः । तुभ्य॑म् । सु॒तः । म॒घ॒व॒न् । तुभ्य॑म् । आऽभृ॑तः । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥
Mantra without Swara
एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः। तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब॥
एषः। स्यः। ते। तन्वः। नृम्णऽवर्धनः। सहः। ओजः। प्रऽदिवि। बाह्वोः। हितः। तुभ्यम्। सुतः। मघवन्। तुभ्यम्। आऽभृतः। त्वम्। अस्य। ब्राह्मणात्। आ। तृपत्। पिब॥
Ashtak » 2
Adhyay » 7
Varga » 25
Mantra » 5
