Mantra 1
धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्ण्वो॑जसो मृ॒गा न भी॒मास्तवि॑षीभिर॒र्चिनः॑। अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणो॒ भृमिं॒ धम॑न्तो॒ अप॒ गा अ॑वृण्वत॥
धा॒रा॒व॒राः । म॒रुतः॑ । घृ॒ष्णुऽओ॑जसः । मृ॒गाः । न । भी॒माः । तवि॑षीभिः । अ॒र्चिनः॑ । अ॒ग्नयः॑ । न । शु॒शु॒चा॒नाः । ऋ॒जी॒षिणः॑ । भृमि॑म् । धम॑न्तः । अप॑ । गाः । अ॒वृ॒ण्व॒त॒ ॥
Mantra 2
द्यावो॒ न स्तृभि॑श्चितयन्त खा॒दिनो॒ व्य१॒॑भ्रिया॒ न द्यु॑तयन्त वृ॒ष्टयः॑। रु॒द्रो यद्वो॑ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्याः॑ शु॒क्र ऊध॑नि॥
द्यावः॑ । न । स्तृऽभिः॑ । चि॒त॒य॒न्त॒ । खा॒दिनः॑ । वि । अ॒भ्रियाः॑ । न । द्यु॒त॒य॒न्त॒ । वृ॒ष्टयः॑ । रु॒द्रः । यत् । वः॒ । म॒रु॒तः॒ । रु॒क्म॒ऽव॒क्ष॒सः॒ । वृषा॑ । अज॑नि । पृश्न्याः॑ । शु॒क्रे । ऊध॑नि ॥
Mantra 3
उ॒क्षन्ते॒ अश्वाँ॒ अत्याँ॑इवा॒जिषु॑ न॒दस्य॒ कर्णै॑स्तुरयन्त आ॒शुभिः॑। हिर॑ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या॑थ॒ पृष॑तीभिः समन्यवः॥
उ॒क्षन्ते॑ । अश्वा॑न् । अत्या॑न्ऽइव । आ॒जिषु॑ । न॒दस्य॑ । कर्णैः॑ । तु॒र॒य॒न्ते॒ । आ॒शुऽभिः॑ । हिर॑ण्यऽशिप्राः । म॒रु॒तः॒ । दवि॑ध्वतः । पृ॒क्षम् । या॒थ॒ । पृष॑तीभिः । स॒ऽम॒न्य॒वः॒ ॥
Mantra 4
पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा॑नवः। पृष॑दश्वासो अनव॒भ्ररा॑धस ऋजि॒प्यासो॒ न व॒युने॑षु धू॒र्षदः॑॥
पृ॒क्षे । ता । विश्वा॑ । भुव॑ना । व॒व॒क्षि॒रे॒ । मि॒त्राय॑ । वा॒ । सद॑म् । आ । जी॒रऽदा॑नवः । पृष॑त्ऽअश्वासः । अ॒न॒व॒भ्रऽरा॑धसः । ऋ॒जि॒प्यासः॑ । न । व॒युने॑षु । धूःऽसदः॑ ॥
Mantra 5
इन्ध॑न्वभिर्धे॒नुभी॑ र॒प्शदू॑धभिरध्व॒स्मभिः॑ प॒थिभि॑र्भ्राजदृष्टयः। आ हं॒सासो॒ न स्वस॑राणि गन्तन॒ मधो॒र्मदा॑य मरुतः समन्यवः॥
इन्ध॑न्वऽभिः । धे॒नुऽभिः॑ । र॒प्शदू॑धऽभिः । अ॒ध्व॒स्मऽभिः॑ । प॒थिऽभिः॑ । भ्रा॒ज॒त्ऽऋ॒ष्ट॒यः॒ । आ । हं॒सासः॑ । न । स्वस॑राणि । ग॒न्त॒न॒ । मधोः॑ । मदा॑य । म॒रु॒तः॒ । स॒ऽम॒न्य॒वः॒ ॥
Mantra 6
आ नो॒ ब्रह्मा॑णि मरुतः समन्यवो न॒रां न शंसः॒ सव॑नानि गन्तन। अश्वा॑मिव पिप्यत धे॒नुमूध॑नि॒ कर्ता॒ धियं॑ जरि॒त्रे वाज॑पेशसम्॥
आ । नः॒ । ब्रह्मा॑णि । म॒रु॒तः॒ । स॒ऽम॒न्य॒वः॒ । न॒राम् । न । शंसः॑ । सव॑नानि । ग॒न्त॒न॒ । अश्वा॑म्ऽइव । पि॒प्य॒त॒ । धे॒नुम् । ऊध॑नि । कर्ता॑ । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽपेशसम् ॥
Mantra 7
तं नो॑ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे। इषं॑ स्तो॒तृभ्यो॑ वृ॒जने॑षु का॒रवे॑ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑॥
तम् । नः॒ । दा॒त॒ । म॒रु॒तः॒ । वा॒जिन॑म् । रथे॑ । आ॒पा॒नम् । ब्रह्म॑ । चि॒तय॑त् । दि॒वेऽदि॑वे । इष॑म् । स्तो॒तृऽभ्यः॑ । वृ॒जने॑षु । का॒रवे॑ । स॒निम् । मे॒धाम् । अरि॑ष्टम् । दु॒स्तर॑म् । सहः॑ ॥
Mantra 8
यद्यु॒ञ्जते॑ म॒रुतो॑ रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे॑षु॒ भग॒ आ सु॒दान॑वः। धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना॑य रा॒तह॑विषे म॒हीमिष॑म्॥
यत् । यु॒ञ्जते॑ । म॒रुतः॑ । रु॒क्मऽव॑क्षसः । अश्वा॑न् । रथे॑षु । भगे॑ । आ । सु॒ऽदान॑वः । धे॒नुः । न । शिश्वे॑ । स्वस॑रेषु । पि॒न्व॒ते॒ । जना॑य । रा॒तऽह॑विषे । म॒हीम् । इष॑म् ॥
Mantra 9
यो नो॑ मरुतो वृ॒कता॑ति॒ मर्त्यो॑ रि॒पुर्द॒धे व॑सवो॒ रक्ष॑ता रि॒षः। व॒र्तय॑त॒ तपु॑षा च॒क्रिया॒भि तमव॑ रुद्रा अ॒शसो॑ हन्तना॒ वधः॑॥
यः । नः॒ । म॒रु॒तः॒ । वृ॒कऽता॑ति । मर्त्यः॑ । रि॒पुः । द॒धे । व॒स॒वः॒ । रक्ष॑त । रि॒षः । व॒र्तय॑त । वपु॑षा । च॒क्रिया॑ । अ॒भि । तम् । अव॑ । रु॒द्राः॒ । अ॒शसः॑ । ह॒न्त॒न॒ । वध॒रिति॑ ॥
Mantra 10
चि॒त्रं तद्वो॑ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो॑ दु॒हुः। यद्वा॑ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा॑य जुर॒ताम॑दाभ्याः॥
चि॒त्रम् । तत् । वः॒ । म॒रु॒तः॒ । याम॑ । चे॒कि॒ते॒ । पृश्न्याः॑ । यत् । ऊधः॑ । अपि॑ । आ॒पयः॑ । दु॒हुः । यत् । वा॒ । नि॒दे । नव॑मानस्य । रु॒द्रि॒याः॒ । त्रि॒तम् । जरा॑य । जु॒र॒ताम् । अ॒दा॒भ्याः॒ ॥
Mantra 11
तान्वो॑ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॑वामहे। हिर॑ण्यवर्णान्ककु॒हान्य॒तस्रु॑चो ब्रह्म॒ण्यन्तः॒ शंस्यं॒ राध॑ ईमहे॥
तान् । वः॒ । म॒हः । म॒रुतः॑ । ए॒व॒ऽयाव्नः॑ । विष्णोः॑ । ए॒षस्य॑ । प्र॒ऽभृ॒थे । ह॒वा॒म॒हे॒ । हिर॑ण्यऽवर्णान् । क॒कु॒हान् । य॒तऽस्रु॑चः । ब्र॒ह्म॒ण्यन्तः॑ । शंस्य॑म् । राधः॑ । ई॒म॒हे॒ ॥
Mantra 12
ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू॑हिरे॒ ते नो॑ हिन्वन्तू॒षसो॒ व्यु॑ष्टिषु। उ॒षा न रा॒मीर॑रु॒णैरपो॑र्णुते म॒हो ज्योति॑षा शुच॒ता गोअ॑र्णसा॥
ते । दश॑ऽग्वाः । प्र॒थ॒माः । य॒ज्ञम् । ऊ॒हि॒रे॒ । ते । नः॒ । हि॒न्व॒न्तु॒ । उ॒षसः॑ । विऽउ॑ष्टिषु । उ॒षाः । न । रा॒मीः । अ॒रु॒णैः । अप॑ । ऊ॒र्णु॒ते॒ । म॒हः । ज्योति॑षा । शु॒च॒ता । गोऽअ॑र्णसा ॥
Mantra 13
ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी॑ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः। नि॒मेघ॑माना॒ अत्ये॑न॒ पाज॑सा सुश्च॒न्द्रं वर्णं॑ दधिरे सु॒पेश॑सम्॥
ते । क्षो॒णीभिः॑ । अरु॒णेभिः॑ । न । अ॒ञ्जिऽभिः॑ । रु॒द्राः । ऋ॒तस्य॑ । सद॑नेषु । व॒वृ॒धुः॒ । नि॒ऽमेघ॑मानाः । अत्ये॑न । पाज॑सा । सुऽच॒न्द्रम् । वर्ण॑म् । द॒धि॒रे॒ । सु॒ऽपेश॑सम् ॥
Mantra 14
ताँ इ॑या॒नो महि॒ वरू॑थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि। त्रि॒तो न यान्पञ्च॒ होतॄ॑न॒भिष्ट॑य आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से॥
तान् । इ॒या॒नः । महि॑ । वरू॑थम् । ऊ॒तये॑ । उप॑ । घ॒ । इत् । ए॒ना । नम॑सा । गृ॒णी॒म॒सि॒ । त्रि॒तः । न । यान् । पञ्च॑ । होतृ॑ॠन् । अ॒भिष्ट॑ये । आ॒ऽव॒वर्त॑त् । अव॑रान् । च॒क्रिया॑ । अव॑से ॥
Mantra 15
यया॑ र॒ध्रं पा॒रय॒थात्यंहो॒ यया॑ नि॒दो मु॒ञ्चथ॑ वन्दि॒तार॑म्। अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु॥
यया॑ । र॒ध्रम् । पा॒रय॑थ । अति॑ । अंहः॑ । यया॑ । नि॒दः । मु॒ञ्चथ॑ । व॒न्दि॒तार॑म् । अ॒र्वाची॑ । सा । म॒रु॒तः॒ । या । वः॒ । ऊ॒तिः । ओ इति॑ । सु । वा॒श्राऽइ॑व । सु॒ऽम॒तिः । जि॒गा॒तु॒ ॥