Mantra 1
ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इन्द्रा॑याहि॒घ्ने न र॑मन्त॒ आपः॑। अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसाम्॥
ऋ॒तम् । दे॒वाय॑ । कृ॒ण्व॒ते । स॒वि॒त्रे । इन्द्रा॑य । अ॒हि॒ऽघ्ने । न । र॒म॒न्ते॒ । आपः॑ । अहः॑ऽअहः । या॒ति॒ । अ॒क्तुः । अ॒पाम् । किय॑ति । आ । प्र॒थ॒मः । सर्गः॑ । आ॒सा॒म् ॥
Mantra 2
यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त्प्र तं जनि॑त्री वि॒दुष॑ उवाच। प॒थो रद॑न्ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो य॒न्त्यर्थ॑म्॥
यः । वृ॒त्राय॑ । सिन॑म् । अत्र॑ । अभ॑रिष्यत् । प्र । तम् । जनि॑त्री । वि॒दुषे॑ । उ॒वा॒च॒ । प॒थः । रद॑न्तीः । अनु॑ । जोष॑म् । अ॒स्मै॒ । दि॒वेऽदि॑वे । धुन॑यः । य॒न्ति॒ । अर्थ॑म् ॥
Mantra 3
ऊ॒र्ध्वो ह्यस्था॒दध्य॒न्तरि॒क्षेऽधा॑ वृ॒त्राय॒ प्र व॒धं ज॑भार। मिहं॒ वसा॑न॒ उप॒ हीमदु॑द्रोत्ति॒ग्मायु॑धो अजय॒च्छत्रु॒मिन्द्रः॑॥
ऊ॒र्ध्वः । हि । अस्था॑त् । अधि॑ । अ॒न्तरि॑क्षे । अध॑ । वृ॒त्राय॑ । प्र । व॒धम् । ज॒भा॒र॒ । मिह॑म् । वसा॑नः । उप॑ । हि । ई॒म् । अदु॑द्रोत् । ति॒ग्मऽआ॑युधः । अ॒ज॒य॒त् । शत्रु॑म् । इन्द्रः॑ ॥
Mantra 4
बृह॑स्पते॒ तपु॒षाश्ने॑व विध्य॒ वृक॑द्वरसो॒ असु॑रस्य वी॒रान्। यथा॑ ज॒घन्थ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिन्द्र॥
बृह॑स्पते । तपु॑षा । अश्ना॑ऽइव । वि॒ध्य॒ । वृक॑ऽद्वरसः । असु॑रस्य । वी॒रान् । यथा॑ । ज॒घन्थ॑ । धृ॒ष॒ता । पु॒रा । चि॒त् । ए॒व । ज॒हि॒ । शत्रु॑म् । अ॒स्माक॑म् । इ॒न्द्र॒ ॥
Mantra 5
अव॑ क्षिप दि॒वो अश्मा॑नमु॒च्चा येन॒ शत्रुं॑ मन्दसा॒नो नि॒जूर्वाः॑। तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे॑र॒स्माँ अ॒र्धं कृ॑णुतादिन्द्र॒ गोना॑म्॥
अव॑ । क्षि॒प॒ । दि॒वः । अश्मा॑नम् । उ॒च्चा । येन॑ । शत्रु॑म् । म॒न्द॒सा॒नः । नि॒ऽजूर्वाः॑ । तो॒कस्य॑ । सा॒तौ । तन॑यस्य । भूरेः॑ । अ॒स्मान् । अ॒र्धम् । कृ॒णु॒ता॒त् । इ॒न्द्र॒ । गोना॑म् ॥
Mantra 6
प्र हि क्रतुं॑ बृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ। इन्द्रा॑सोमा यु॒वम॒स्माँ अ॑विष्टम॒स्मिन्भ॒यस्थे॑ कृणुतमु लो॒कम्॥
प्र । हि । क्रतु॑म् । वृ॒हथः॑ । यम् । व॒नु॒थः । र॒ध्रस्य॑ । स्थः॒ । यज॑मानस्य । चो॒दौ । इन्द्रा॑सोमा । यु॒वम् । अ॒स्मान् । अ॒वि॒ष्ट॒म् । अ॒स्मिन् । भ॒यऽस्थे॑ । कृ॒णु॒त॒म् । ऊँ॒ इति॑ । लो॒कम् ॥
Mantra 7
न मा॑ तम॒न्न श्र॑म॒न्नोत त॑न्द्र॒न्न वो॑चाम॒ मा सु॑नो॒तेति॒ सोम॑म्। यो मे॑ पृ॒णाद्यो दद॒द्यो नि॒बोधा॒द्यो मा॑ सु॒न्वन्त॒मुप॒ गोभि॒राय॑त्॥
न । मा॒ । त॒म॒त् । न । श्र॒म॒त् । न । उ॒त । त॒न्द्र॒त् । न । वो॒चा॒म॒ । मा । सु॒नो॒त॒ । इति॑ । सोम॑म् । यः । मे॒ । पृ॒णात् । यः । दद॑त् । यः । नि॒ऽबोधा॑त् । यः । मा॒ । सु॒न्वन्त॑म् । उप॑ । गोभिः॑ । आ । अय॑त् ॥
Mantra 8
सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे॑षि॒ शत्रू॑न्। त्यं चि॒च्छर्ध॑न्तं तविषी॒यमा॑ण॒मिन्द्रो॑ हन्ति वृष॒भं शण्डि॑कानाम्॥
सर॑स्वति । त्वम् । अ॒स्मान् । अ॒वि॒ड्ढि॒ । म॒रुत्व॑ती । धृ॒ष॒ती । जे॒षि॒ । शत्रू॑न् । त्यम् । चि॒त् । शर्ध॑न्तम् । त॒वि॒षी॒ऽयमा॑णम् । इन्द्रः॑ । ह॒न्ति॒ । वृ॒ष॒भम् । शण्डि॑कानाम् ॥
Mantra 9
यो नः॒ सनु॑त्य उ॒त वा॑ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य। बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रू॑न्द्रु॒हे रीष॑न्तं॒ परि॑ धेहि राजन्॥
यः । नः॒ । सनु॑त्य । उ॒त । वा॒ । जि॒घ॒त्नुः । अ॒भि॒ऽख्याय॑ । तम् । ति॒गि॒तेन॑ । वि॒ध्य॒ । बृह॑स्पते । आयु॑धैः । जे॒षि॒ । शत्रू॑न् । दु॒हे । रिष॑न्तम् । परि॑ । धे॒हि॒ । रा॒ज॒न् ॥
Mantra 10
अ॒स्माके॑भिः॒ सत्व॑भिः शूर॒ शूरै॑र्वी॒र्या॑ कृधि॒ यानि॑ ते॒ कर्त्वा॑नि। ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू॑नि॥
अ॒स्माके॑भिः । सत्व॑ऽभिः । शू॒र॒ । शूरैः॑ । वी॒र्या॑ । कृ॒धि॒ । यानि॑ । ते॒ । कर्त्वा॑नि । ज्योक् । अ॒भू॒व॒न् । अनु॑ऽधूपितासः । ह॒त्वी । तेषा॑म् । आ । भ॒र॒ । नः॒ । वसू॑नि ॥
Mantra 11
तं वः॒ शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जन॑म्। यथा॑ र॒यिं सर्व॑वीरं॒ नशा॑महा अपत्य॒साचं॒ श्रुत्यं॑ दि॒वेदि॑वे॥
तम् । वः॒ । शर्ध॑म् । मारु॑तम् । सु॒म्न॒ऽयुः । गि॒रा । उप॑ । ब्रु॒वे॒ । नम॑सा । दैव्य॑म् । जन॑म् । यथा॑ । र॒यिम् । सर्व॑ऽवीरम् । नशा॑महै । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । दि॒वेऽदि॑वे ॥