Mantra with Swara
ह॒ये दे॑वा यू॒यमिदा॒पयः॑ स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्य॑म्। मा वो॒ रथो॑ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म॥
ह॒ये । दे॒वाः॒ । यू॒यम् । इत् । आ॒पयः॑ । स्थ॒ । ते । मृ॒ळ॒त॒ । नाध॑मानाय । मह्य॑म् । मा । वः॒ । रथः॑ । म॒ध्य॒म॒ऽवाट् । ऋ॒ते । भू॒त् । मा । यु॒ष्माव॑त्ऽसु । आ॒पिषु॑ । श्र॒मि॒ष्म॒ ॥
Mantra without Swara
हये देवा यूयमिदापयः स्थ ते मृळत नाधमानाय मह्यम्। मा वो रथो मध्यमवाळृते भून्मा युष्मावत्स्वापिषु श्रमिष्म॥
हये। देवाः। यूयम्। इत्। आपयः। स्थ। ते। मृळत। नाधमानाय। मह्यम्। मा। वः। रथः। मध्यमऽवाट्। ऋते। भूत्। मा। युष्मावत्ऽसु। आपिषु। श्रमिष्म॥
Ashtak » 2
Adhyay » 7
Varga » 11
Mantra » 4
