Mantra 1
इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि। शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंशः॑॥
इ॒माः । गिरः॑ । आ॒दि॒त्येभ्यः॑ । घृ॒तऽस्नूः॑ । स॒नात् । राज॑ऽभ्यः । जु॒ह्वा॑ । जु॒हो॒मि॒ । शृ॒णोतु॑ । मि॒त्रः । अ॒र्य॒मा । भगः॑ । नः॒ । तु॒वि॒ऽजा॒तः । वरु॑णः । दक्षः॑ । अंशः॑ ॥
Mantra 2
इ॒मं स्तोमं॒ सक्र॑तवो मे अ॒द्य मि॒त्रो अ॑र्य॒मा वरु॑णो जुषन्त। आ॒दि॒त्यासः॒ शुच॑यो॒ धार॑पूता॒ अवृ॑जिना अनव॒द्या अरि॑ष्टाः॥
इ॒मम् । स्तोम॑म् । सऽक्र॑तवः । मे॒ । अ॒द्य । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । जु॒ष॒न्त॒ । आ॒दि॒त्यासः॑ । शुच॑यः । धार॑ऽपूताः । अवृ॑जिनाः । अ॒न॒व॒द्याः । अरि॑ष्टाः ॥
Mantra 3
त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्स॑न्तो भूर्य॒क्षाः। अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑॥
ते । आ॒दि॒त्यासः॑ । उ॒रवः॑ । ग॒भी॒राः । अद॑ब्धासः । दिप्स॑न्तः । भू॒रि॒ऽअ॒क्षाः । अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । वृ॒जि॒ना । उ॒त । सा॒धु । सर्व॑म् । राज॑ऽभ्यः । प॒र॒मा । चि॒त् । अन्ति॑ ॥
Mantra 4
धा॒रय॑न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः। दी॒र्घाधि॑यो॒ रक्ष॑माणा असु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑॥
धा॒रय॑न्तः । आ॒दि॒त्यासः॑ । जग॑त् । स्थाः । दे॒वाः । विश्व॑स्य । भुव॑नस्य । गो॒पाः । दी॒र्घऽधि॑यः । रक्ष॑माणाः । अ॒सु॒र्य॑म् । ऋ॒तऽवा॑नः । चय॑मानाः । ऋ॒णानि॑ ॥
Mantra 5
वि॒द्यामा॑दित्या॒ अव॑सो वो अ॒स्य यद॑र्यमन्भ॒य आ चि॑न्मयो॒भु। यु॒ष्माकं॑ मित्रावरुणा॒ प्रणी॑तौ॒ परि॒ श्वभ्रे॑व दुरि॒तानि॑ वृज्याम्॥
वि॒द्याम् । आ॒दि॒त्याः॒ । अव॑सः । वः॒ । अ॒स्य । य॒त् । अ॒र्य॒म॒न् । भ॒ये । आ । चि॒त् । म॒यः॒ऽभु । यु॒ष्माक॑म् । मि॒त्रा॒व॒रुणा॒ । प्रऽनी॑तौ । परि॑ । श्वभ्रा॑ऽइव । दुः॒ऽइ॒तानि॑ । वृ॒ज्या॒म् ॥
Mantra 6
सु॒गो हि वो॑ अर्यमन्मित्र॒ पन्था॑ अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑। तेना॑दित्या॒ अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हन्तु॒ शर्म॑॥
सु॒ऽगः । हि । वः॒ । अ॒र्य॒म॒न् । मि॒त्र॒ । पन्थाः॑ । अ॒नृ॒क्ष॒रः । व॒रु॒ण॒ । सा॒धुः । अस्ति॑ । तेन॑ । आ॒दि॒त्याः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । यच्छ॑त । नः॒ । दुः॒ऽप॒रि॒हन्तु॑ । शर्म॑ ॥
Mantra 7
पिप॑र्तु नो॒ अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां॑स्यर्य॒मा सु॒गेभिः॑। बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒ अरि॑ष्टाः॥
पिप॑र्तु । नः॒ । अदि॑तिः । राज॑ऽपु॒त्रा । अति॑ । द्वेषां॑सि । अ॒र्य॒मा । सु॒ऽगेभिः॑ । बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । शर्म॑ । उप॑ । स्या॒म॒ । पु॒रु॒ऽवीराः॑ । अरि॑ष्टाः ॥
Mantra 8
ति॒स्रो भूमी॑र्धारय॒न् त्रीँरु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम्। ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन्वरुण मित्र॒ चारु॑॥
ति॒स्रः । भूमीः॑ । धा॒र॒य॒न् । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । व्र॒ता । वि॒दथे॑ । अ॒न्तः । ए॒षा॒म् । ऋ॒तेन॑ । आ॒दि॒त्याः॒ । महि॑ । वः॒ । म॒हि॒ऽत्वम् । तत् । अ॒र्य॒म॒न् । व॒रु॒ण॒ । मि॒त्र॒ । चारु॑ ॥
Mantra 9
त्री रो॑च॒ना दि॒व्या धा॑रयन्त हिर॒ण्ययाः॒ शुच॑यो॒ धार॑पूताः। अस्व॑प्नजो अनिमि॒षा अद॑ब्धा उरु॒शंसा॑ ऋ॒जवे॒ मर्त्या॑य॥
त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ । हि॒र॒ण्ययाः॑ । शुच॑यः । धार॑ऽपूताः । अस्व॑प्न्ऽअजः । अ॒नि॒ऽमि॒षाः । अद॑ब्धाः । उ॒रु॒ऽशंसाः॑ । ऋ॒जवे॑ । मर्त्या॑य ॥
Mantra 10
त्वं विश्वे॑षां वरुणासि॒ राजा॒ ये च॑ दे॒वा अ॑सुर॒ ये च॒ मर्ताः॑। श॒तं नो॑ रास्व श॒रदो॑ वि॒चक्षे॒ऽश्यामायूं॑षि॒ सुधि॑तानि॒ पूर्वा॑॥
त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ । ये । च॒ । दे॒वाः । अ॒सु॒र॒ । ये । च॒ । मर्ताः॑ । श॒तम् । नः॒ । रा॒स्व॒ । श॒रदः॑ । वि॒ऽचक्षे॑ । अ॒श्याम॑ । आयूं॑षि । सुधि॑तानि । पूर्वा॑ ॥
Mantra 11
न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा। पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद्यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्याम्॥
न । द॒क्षि॒णा । वि । चि॒कि॒ते॒ । न । स॒व्या । न । प्रा॒चीन॑म् । आ॒दि॒त्याः॒ । न । उ॒त । प॒श्चा । पा॒क्या॑ । चि॒त् । व॒स॒वः॒ । धी॒र्या॑ । चि॒त् । यु॒ष्माऽनी॑तः । अभ॑यम् । ज्योतिः॑ । अ॒श्या॒म् ॥
Mantra 12
यो राज॑भ्य ऋत॒निभ्यो॑ द॒दाश॒ यं व॒र्धय॑न्ति पु॒ष्टय॑श्च॒ नित्याः॑। स रे॒वान्या॑ति प्रथ॒मो रथे॑न वसु॒दावा॑ वि॒दथे॑षु प्रश॒स्तः॥
यः । राज॑ऽभ्यः । ऋ॒त॒निऽभ्यः॑ । द॒दाश॑ । यम् । व॒र्धय॑न्ति । पु॒ष्टयः॑ । च॒ । नित्याः॑ । सः । रे॒वान् । या॒ति॒ । प्र॒थ॒मः । रथे॑न । व॒सु॒ऽदावा॑ । वि॒दथे॑षु । प्र॒ऽश॒स्तः ॥
Mantra 13
शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑। नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ॥
शुचिः॑ । अ॒पः । सु॒ऽयव॑साः । अद॑ब्धः । उप॑ । क्षे॒ति॒ । वृ॒द्धऽव॑याः । सु॒ऽवीरः॑ । नकिः॑ । तम् । घ्न॒न्ति॒ । अन्ति॑तः । न । दू॒रात् । यः । आ॒दि॒त्याना॑म् । भव॑ति । प्रऽनी॑तौ ॥
Mantra 14
अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्वो॑ व॒यं च॑कृ॒मा कच्चि॒दागः॑। उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिन्द्र॒ मा नो॑ दी॒र्घा अ॒भि न॑श॒न्तमि॑स्राः॥
अदि॑ते । मित्र॑ । वरु॑ण । उ॒त । मृ॒ळ॒ । यत् । वः॒ । व॒यम् । च॒कृ॒म । कत् । चि॒त् । आगः॑ । उ॒रु । अ॒श्या॒म् । अभ॑यम् । ज्योतिः॑ । इ॒न्द्र॒ । मा । नः॒ । दी॒र्घाः । अ॒भि । न॒श॒न् । तमि॑स्राः ॥
Mantra 15
उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न्। उ॒भा क्षया॑वा॒जय॑न्याति पृ॒त्सूभावर्धौ॑ भवतः सा॒धू अ॑स्मै॥
उ॒भे इति॑ । अ॒स्मै॒ । पी॒प॒य॒तः॒ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । दि॒वः । वृ॒ष्टिम् । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् । उ॒भा । क्षयौ॑ । आ॒ऽजय॑न् । या॒ति॒ । पृ॒त्ऽसु । उ॒भौ । अर्धौ॑ । भ॒व॒तः॒ । सा॒धू इति॑ । अ॒स्मै॒ ॥
Mantra 16
या वो॑ मा॒या अ॑भि॒द्रुहे॑ यजत्राः॒ पाशा॑ आदित्या रि॒पवे॒ विचृ॑त्ताः। अ॒श्वीव॒ ताँ अति॑ येषं॒ रथे॒नारि॑ष्टा उ॒रावा शर्म॑न्त्स्याम॥
याः । वः॒ । मा॒याः । अ॒भि॒ऽद्रुहे॑ । यजत्राः॑ । पाशाः॑ । आ॒दि॒त्याः॒ । रि॒पवे॑ । विऽचृ॑त्ताः । अ॒श्वीऽइ॑व । तान् । अति॑ । ये॒ष॒म् । रथे॑न । अरि॑ष्टाः । उ॒रौ । आ । शर्म॑न् । स्या॒म॒ ॥
Mantra 17
माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः। मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
मा । अ॒हम् । म॒घोनः । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः । मा । रा॒यः । रा॒जन् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥