Mantra with Swara
तस्मा॒ इद्विश्वे॑ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑। दे॒वानां॑ सु॒म्ने सु॒भगः॒ स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑॥
तस्मै॑ । इत् । विश्वे॑ । धु॒न॒य॒न्त॒ । सिन्ध॑वः । अच्छि॑द्रा । शर्म॑ । द॒धि॒रे॒ । पु॒रूणि॑ । दे॒वाना॑म् । सु॒म्ने । सु॒ऽभगः॑ । सः । ए॒ध॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥
Mantra without Swara
तस्मा इद्विश्वे धुनयन्त सिन्धवोऽच्छिद्रा शर्म दधिरे पुरूणि। देवानां सुम्ने सुभगः स एधते यंयं युजं कृणुते ब्रह्मणस्पतिः॥
तस्मै। इत्। विश्वे। धुनयन्त। सिन्धवः। अच्छिद्रा। शर्म। दधिरे। पुरूणि। देवानाम्। सुम्ने। सुऽभगः। सः। एधते। यम्ऽयम्। युजम्। कृणुते। ब्रह्मणः। पतिः॥
Ashtak » 2
Adhyay » 7
Varga » 4
Mantra » 5
