Mantra with Swara
स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो अनु॒ जोष॑मुक्षि॒तः। वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा॑रि॒त इन्द्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या॑॥
स॒त्रा॒ऽस॒हः । ज॒न॒ऽभ॒क्षः । ज॒न॒म्ऽस॒हः । च्यव॑नः । यु॒ध्मः । अनु॑ । जोष॑म् । क्षि॒तः । वृ॒त॒म्ऽच॒यः । सहु॑रिः । वि॒क्षु । आ॒रि॒तः । इन्द्र॑स्य । वोच॑म् । प्र । कृ॒तानि॑ । वी॒र्या॑ ॥
Mantra without Swara
सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः। वृतंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या॥
सत्राऽसहः। जनऽभक्षः। जनम्ऽसहः। च्यवनः। युध्मः। अनु। जोषम्। उक्षितः। वृतम्ऽचयः। सहुरिः। विक्षु। आरितः। इन्द्रस्य। वोचम्। प्र। कृतानि। वीर्या॥
Ashtak » 2
Adhyay » 6
Varga » 27
Mantra » 3
