Mantra 1
व॒यं ते॒ वय॑ इन्द्र वि॒द्धि षु णः॒ प्र भ॑रामहे वाज॒युर्न रथ॑म्। वि॒प॒न्यवो॒ दीध्य॑तो मनी॒षा सु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒ नॄन्॥
व॒यम् । ते॒ । वयः॑ । इ॒न्द्र॒ । वि॒द्धि । सु । नः॒ । प्र । भ॒रा॒म॒हे॒ । वा॒ज॒ऽयुः । न । रथ॑म् । वि॒प॒न्यवः॑ । दीध्य॑तः । म॒नी॒षा । सु॒म्नम् । इय॑क्षन्तः । त्वाऽव॑तः । नॄन् ॥
Mantra 2
त्वं न॑ इन्द्र॒ त्वाभि॑रू॒ती त्वा॑य॒तो अ॑भिष्टि॒पासि॒ जना॑न्। त्वमि॒नो दा॒शुषो॑ वरू॒तेत्थाधी॑र॒भि यो नक्ष॑ति त्वा॥
त्वम् । नः॒ । इ॒न्द्र॒ । त्वाभिः॑ । ऊ॒ती । त्वा॒ऽय॒तः । अ॒भि॒ष्टि॒ऽपा । अ॒सि॒ । जना॑न् । त्वम् । इ॒नः । दा॒शुषः॑ । व॒रू॒ता । इ॒त्थाऽधीः॑ । अ॒भि । यः । नक्ष॑ति । त्वा॒ ॥
Mantra 3
स नो॒ युवेन्द्रो॑ जो॒हूत्रः॒ सखा॑ शि॒वो न॒राम॑स्तु पा॒ता। यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती पच॑न्तं च स्तु॒वन्तं॑ च प्र॒णेष॑त्॥
सः । नः॒ । युवा॑ । इन्द्रः॑ । जो॒हूत्रः॑ । सखा॑ । शि॒वः । न॒राम् । अ॒स्तु॒ । पा॒ता । यः । शंस॑न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती । पच॑न्तम् । च॒ । स्तु॒वन्त॑म् । च॒ । प्र॒ऽनेष॑त् ॥
Mantra 4
तमु॑ स्तुष॒ इन्द्रं॒ तं गृ॑णीषे॒ यस्मि॑न्पु॒रा वा॑वृ॒धुः शा॑श॒दुश्च॑। स वस्वः॒ कामं॑ पीपरदिया॒नो ब्र॑ह्मण्य॒तो नूत॑नस्या॒योः॥
तम् । ऊँ॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । तम् । गृ॒णी॒षे॒ । यस्मि॑न् । पु॒रा । व॒वृ॒धुः । शा॒श॒दुः । च॒ । सः । वस्वः॑ । काम॑म् । पी॒प॒र॒त् । इ॒या॒नः । ब्र॒ह्म॒ण्य॒तः । नूत॑नस्य । आ॒योः ॥
Mantra 5
सो अङ्गि॑रसामु॒चथा॑ जुजु॒ष्वान्ब्रह्मा॑ तूतो॒दिन्द्रो॑ गा॒तुमि॒ष्णन्। मु॒ष्णन्नु॒षसः॒ सूर्ये॑ण स्त॒वानश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑॥
सः । अङ्गि॑रसाम् । उ॒चथा॑ । जु॒जु॒ष्वान् । ब्रह्मा॑ । तू॒तो॒त् । इन्द्रः॑ । गा॒तुम् । इ॒ष्णन् । मु॒ष्णन् । उ॒षसः॑ । सूर्ये॑ण । स्त॒वान् । अश्न॑स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि॑ ॥
Mantra 6
स ह॑ श्रु॒त इन्द्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः। अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वाञ्छिरो॑ भरद्दा॒सस्य॑ स्व॒धावा॑न्॥
सः । ह॒ । शृउ॒तः । इन्द्रः॑ । नाम॑ । दे॒वः । ऊ॒र्ध्वः । भु॒व॒न् । मनु॑षे । द॒स्मऽत॑मः । अव॑ । प्रि॒यम् । अ॒र्श॒सा॒नस्य॑ । शा॒ह्वान् । शिरः॑ । भ॒र॒त् । दा॒सस्य॑ । स्व॒धाऽवा॑न् ॥
Mantra 7
स वृ॑त्र॒हेन्द्रः॑ कृ॒ष्णयो॑नीः पुरंद॒रो दासी॑रैरय॒द्वि। अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत्॥
सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । कृ॒ष्णऽयो॑नीः । पु॒र॒म्ऽद॒रः । दासीः॑ । ऐ॒र॒य॒त् । वि । अज॑नयत् । मन॑वे । क्षा॒म॒ऽपः । च॒ । स॒त्रा । शंस॑म् । यज॑मानस्य । तू॒तो॒त् ॥
Mantra 8
तस्मै॑ तव॒स्य१॒॑मनु॑ दायि स॒त्रेन्द्रा॑य दे॒वेभि॒रर्ण॑सातौ। प्रति॒ यद॑स्य॒ वज्रं॑ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय॑सी॒र्नि ता॑रीत्॥
तस्मै॑ । त॒व॒स्य॑म् । अनु॑ । दा॒यि॒ । स॒त्रा । इन्द्रा॑य । दे॒वेभिः॑ । अर्ण॑ऽसातौ । प्रति॑ । यत् । अ॒स्य॒ । वज्र॑म् । बा॒ह्वोः । धुः । ह॒त्वी । दस्यू॑न् । पुरः॑ । आय॑सीः । नि । ता॒री॒त् ॥
Mantra 9
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑। शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ । शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥