Mantra 1
य॒ज्ञेन॑ वर्धत जा॒तवे॑दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना॑ गि॒रा। स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व॑र्णरं द्यु॒क्षं होता॑रं वृ॒जने॑षु धू॒र्षद॑म्॥
य॒ज्ञेन॑ । व॒र्ध॒त॒ । जा॒तऽवे॑दसम् । अ॒ग्निम् । य॒ज॒ध्व॒म् । ह॒विषा॑ । तना॑ । गि॒रा । स॒म्ऽइ॒धा॒नम् । सु॒ऽप्र॒यस॑म् । स्वः॑ऽनरम् । द्यु॒क्षम् । होता॑रम् । वृ॒जने॑षु । धूः॒ऽसद॑म् ॥
Mantra 2
अ॒भि त्वा॒ नक्ती॑रुष॒सो॑ ववाशि॒रेऽग्ने॑ व॒त्सं न स्वस॑रेषु धे॒नवः॑। दि॒वइ॒वेद॑र॒तिर्मानु॑षा यु॒गा क्षपो॑ भासि पुरुवार सं॒यतः॑॥
अ॒भि । त्वा॒ । नक्तीः॑ । उ॒षसः॑ । व॒वा॒शि॒रे॒ । अग्ने॑ । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ । दि॒वःऽइ॑व । इत् । अ॒र॒तिः । मानु॑षा । यु॒गा । आ । क्षपः॑ । भा॒सि॒ । पु॒रु॒ऽवा॒र॒ । स॒म्ऽयतः॑ ॥
Mantra 3
तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये॑रिरे। रथ॑मिव॒ वेद्यं॑ शु॒क्रशो॑चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्य॑म्॥
तं । दे॒वाः । बु॒ध्ने । रज॑सः । सु॒ऽदंस॑सम् । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिम् । नि । ए॒रि॒रे॒ । रथ॑म्ऽइव । वेद्य॑म् । शु॒क्रऽशो॑चिषम् । अ॒ग्निम् । मि॒त्रम् । न । क्षि॒तिषु॑ । प्र॒ऽशंस्य॑म् ॥
Mantra 4
तमु॒क्षमा॑णं॒ रज॑सि॒ स्व आ दमे॑ च॒न्द्रमि॑व सु॒रुचं॑ ह्वा॒र आ द॑धुः। पृश्न्याः॑ पत॒रं चि॒तय॑न्तम॒क्षभिः॑ पा॒थो न पा॒युं जन॑सी उ॒भे अनु॑॥
तम् । उ॒क्षमा॑णम् । रज॑सि । स्वे । आ । दमे॑ । च॒न्द्रम्ऽइ॑व । सु॒ऽरुच॑म् । ह्वा॒रे । आ । द॒धुः॒ । पृश्न्याः॑ । प॒त॒रम् । चि॒तय॑न्तम् । अ॒क्षऽभिः॑ । पा॒थः । न । पा॒युम् । जन॑सी॒ इति॑ । उ॒भे इति॑ । अनु॑ ॥
Mantra 5
स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋञ्जते गि॒रा। हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द्द्यौर्न स्तृभि॑श्चितय॒द्रोद॑सी॒ अनु॑॥
सः । होता॑ । विश्व॒म् । परि॑ । भू॒तु॒ । अ॒ध्व॒रम् । तम् । ऊँ॒ इति॑ । ह॒व्यैः । मनु॑षः । ऋ॒ञ्ज॒ते॒ । गि॒रा । हि॒रि॒ऽशि॒प्रः । वृ॒ध॒सा॒नासु॑ । जर्भु॑रत् । द्यौः । न । स्तृऽभिः॑ । चि॒त॒य॒त् । रोद॑सी॒ इति॑ । अनु॑ ॥
Mantra 6
स नो॑ रे॒वत्स॑मिधा॒नः स्व॒स्तये॑ संदद॒स्वान्र॒यिम॒स्मासु॑ दीदिहि। आ नः॑ कृणुष्व सुवि॒ताय॒ रोद॑सी॒ अग्ने॑ ह॒व्या मनु॑षो देव वी॒तये॑॥
सः । नः॒ । रे॒वत् । स॒म्ऽइ॒धा॒नः । स्व॒स्तये॑ । स॒म्ऽद॒द॒स्वान् । र॒यिम् । अ॒स्मासु॑ । दी॒दि॒हि॒ । आ । नः॒ । कृ॒णु॒ष्व॒ । सु॒वि॒ताय॑ । रोद॑सी॒ इति॑ । अग्ने॑ । ह॒व्या । मनु॑षः । दे॒व॒ । वी॒तये॑ ॥
Mantra 7
दा नो॑ अग्ने बृह॒तो दाः स॑ह॒स्रिणो॑ दु॒रो न वाजं॒ श्रुत्या॒ अपा॑ वृधि। प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ स्व१॒॑र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतः॥
दाः । नः॒ । अ॒ग्ने॒ । बृ॒ह॒तः । दाः । स॒ह॒स्रिणः॑ । दु॒रः । न । वाज॑म् । श्रुत्यै॑ । अप॑ । वृ॒धि॒ । प्राची॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । ब्रह्म॑णा । कृ॒धि॒ । स्वः॑ । न । शु॒क्रम् । उ॒षसः॑ । वि । दि॒द्यु॒तुः॒ ॥
Mantra 8
स इ॑धा॒न उ॒षसो॒ राम्या॒ अनु॒ स्व१॒॑र्ण दी॑देदरु॒षेण॑ भा॒नुना॑। होत्रा॑भिर॒ग्निर्मनु॑षः स्वध्व॒रो राजा॑ वि॒शामति॑थि॒श्चारु॑रा॒यवे॑॥
सः । इ॒धा॒नः । उ॒षसः॑ । राम्याः॑ । अनु॑ । स्वः॑ । न । दी॒दे॒त् । अ॒रु॒षेण॑ । भा॒नुना॑ । होत्रा॑भिः । अ॒ग्निः । मनु॑षः । सु॒ऽअ॒ध्व॒रः । राजा॑ । वि॒शाम् । अति॑थिः । चारुः॑ । आ॒यवे॑ ॥
Mantra 9
ए॒वा नो॑ अग्ने अ॒मृते॑षु पूर्व्य॒ धीष्पी॑पाय बृ॒हद्दि॑वेषु॒ मानु॑षा। दुहा॑ना धे॒नुर्वृ॒जने॑षु का॒रवे॒ त्मना॑ श॒तिनं॑ पुरु॒रूप॑मि॒षणि॑॥
ए॒व । नः॒ । अ॒ग्ने॒ । अ॒मृते॑षु । पू॒र्व्य॒ । धीः । पी॒पा॒य॒ । बृ॒हत्ऽदि॑वेषु । मानु॑षा । दुहा॑ना । धे॒नुः । वृ॒जने॑षु । का॒रवे॑ । त्मना॑ । श॒तिन॑म् । पु॒रु॒ऽरूप॑म् । इ॒षणि॑ ॥
Mantra 10
व॒यम॑ग्ने॒ अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒ अति॑। अ॒स्माकं॑ द्यु॒म्नमधि॒ पञ्च॑ कृ॒ष्टिषू॒च्चा स्व१॒॑र्ण शु॑शुचीत दु॒ष्टर॑म्॥
व॒यम् । अ॒ग्ने॒ । अर्व॑ता । वा । सु॒ऽवीर्य॑म् । ब्रह्म॑णा । वा । चि॒त॒ये॒म॒ । जना॑न् । अति॑ । अ॒स्माक॑म् । द्यु॒म्नम् । अधि॑ । पञ्च॑ । कृ॒ष्टिषु॑ । उ॒च्चा । स्वः॑ । न । शु॒शु॒ची॒त॒ । दु॒स्तर॑म् ॥
Mantra 11
स नो॑ बोधि सहस्य प्र॒शंस्यो॒ यस्मि॑न्त्सुजा॒ता इ॒षय॑न्त सू॒रयः॑। यम॑ग्ने य॒ज्ञमु॑प॒यन्ति॑ वा॒जिनो॒ नित्ये॑ तो॒के दी॑दि॒वांसं॒ स्वे दमे॑॥
सः । नः॒ । बो॒धि॒ । स॒ह॒स्य॒ । प्र॒ऽशंस्यः॑ । यस्मि॑न् । सु॒ऽजा॒ताः । इ॒षय॑न्त । सू॒रयः॑ । यम् । अ॒ग्ने॒ । य॒ज्ञम् । उ॒प॒ऽयन्ति॑ । वा॒जिनः॑ । नित्ये॑ । तो॒के । दी॒दि॒ऽवांस॑म् । स्वे । दमे॑ ॥
Mantra 12
उ॒भया॑सो जातवेदः स्याम ते स्तो॒तारो॑ अग्ने सू॒रय॑श्च॒ शर्म॑णि। वस्वो॑ रा॒यः पु॑रुश्च॒न्द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः॥
उ॒भया॑सः । जा॒त॒ऽवे॒दः॒ । स्या॒म॒ । ते॒ । स्तो॒तारः॑ । अ॒ग्ने॒ । सू॒रयः॑ । च॒ । शर्म॑णि । वस्वो॑ । रा॒यः । पु॒रु॒ऽच॒न्द्रस्य॑ । भूय॑सः । प्र॒जाऽव॑तः । सुऽअ॒प॒त्यस्य॑ । श॒ग्धि॒ । नः॒ ॥
Mantra 13
ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑। अ॒स्माञ्च॒ तांश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
ये । स्तो॒तृऽभ्यः॑ । गोऽअ॑ग्राम् । अश्व॑ऽपेशसम् । अग्ने॑ । रा॒तिम् । उ॒प॒ऽसृ॒जन्ति॑ । सू॒रयः॑ । अ॒स्मान् । च॒ । तान् । च॒ । प्र । हि । नेषि॑ । वस्यः॑ । आ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥