Mantra 1
अपा॑य्य॒स्यान्ध॑सो॒ मदा॑य॒ मनी॑षिणः सुवा॒नस्य॒ प्रय॑सः। यस्मि॒न्निन्द्रः॑ प्र॒दिवि॑ वावृधा॒न ओको॑ द॒धे ब्र॑ह्म॒ण्यन्त॑श्च॒ नरः॑॥
अपा॑यि । अ॒स्य । अन्ध॑सः । मदा॑य । मनी॑षिणः । सु॒वा॒नस्य॑ । प्रय॑सः । यस्मि॑न् । इन्द्रः॑ । प्र॒ऽदिवि॑ । व॒वृ॒धा॒नः । ओकः॑ । द॒धे । ब्र॒ह्म॒ण्यन्तः॑ । च॒ । नरः॑ ॥
Mantra 2
अ॒स्य म॑न्दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिन्द्रो॑ अर्णो॒वृतं॒ वि वृ॑श्चत्। प्र यद्वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां॑सि च न॒दीनां॒ चक्र॑मन्त॥
अ॒स्य । म॒न्दा॒नः । मध्वः॑ । वज्र॑ऽहस्तः । अहि॑म् । इन्द्रः॑ । अ॒र्णः॒ऽवृत॑म् । वि । वृ॒श्च॒त् । प्र । यत् । वयः॑ । न । स्वस॑राणि । अच्छ॑ । प्रयां॑सि । च॒ । न॒दीना॑म् । चक्र॑मन्त ॥
Mantra 3
स माहि॑न॒ इन्द्रो॒ अर्णो॑ अ॒पां प्रैर॑यदहि॒हाच्छा॑ समु॒द्रम्। अज॑नय॒त्सूर्यं॑ वि॒दद्गा अ॒क्तुनाह्नां॑ व॒युना॑नि साधत्॥
सः । माहि॑नः । इन्द्रः॑ । अर्णः॑ । अ॒पाम् । प्र । ऐ॒र॒य॒त् । अ॒हि॒ऽहा । अच्छ॑ । स॒मु॒द्रम् । अज॑नयत् । सूर्य॑म् । वि॒दत् । गाः । अ॒क्तुना॑ । अह्ना॑म् । व॒युना॑नि । सा॒ध॒त् ॥
Mantra 4
सो अ॑प्र॒तीनि॒ मन॑वे पु॒रूणीन्द्रो॑ दाशद्दा॒शुषे॒ हन्ति॑ वृ॒त्रम्। स॒द्यो यो नृभ्यो॑ अत॒साय्यो॒ भूत्प॑स्पृधा॒नेभ्यः॒ सूर्य॑स्य सा॒तौ॥
सः । अ॒प्र॒तीनि॑ । मन॑वे । पु॒रूणि॑ । इन्द्रः॑ । दा॒श॒त् । दा॒शुषे॑ । हन्ति॑ । वृ॒त्रम् । स॒द्यः । यः । नृऽभ्यः॑ । अ॒त॒साय्यः॑ । भूत् । प॒स्पृ॒धा॒नेभ्यः॑ । सूर्य॑स्य । सा॒तौ ॥
Mantra 5
स सु॑न्व॒त इन्द्रः॒ सूर्य॒मा दे॒वो रि॑ण॒ङ्मर्त्या॑य स्त॒वान्। आ यद्र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन्॥
सः । सु॒न्व॒ते । इन्द्रः॑ । सूर्य॑म् । आ । दे॒वः । रि॒ण॒क् । मर्त्या॑य । स्त॒वान् । आ । यत् । र॒यिम् । ग्ह॒त्ऽअ॑वद्यम् । अ॒स्मै॒ । भर॑त् । अंश॑म् । न । एत॑शः । द॒श॒स्यन् ॥
Mantra 6
स र॑न्धयत्स॒दिवः॒ सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा॑य। दिवो॑दासाय नव॒तिं च॒ नवेन्द्रः॒ पुरो॒ व्यै॑र॒च्छम्ब॑रस्य॥
सः । र॒न्ध॒य॒त् । स॒ऽदिवः॑ । सार॑थये । शुष्ण॑म् । अ॒शुष॑म् । कुय॑वम् । कुत्सा॑य । दिवः॑ऽदासाय । न॒व॒तिम् । च॒ । नव॑ । इन्द्रः॑ । पुरः॑ । वि । ऐ॒र॒त् । शम्ब॑रस्य ॥
Mantra 7
ए॒वा त॑ इन्द्रो॒चथ॑महेम श्रव॒स्या न त्मना॑ वा॒जय॑न्तः। अ॒श्याम॒ तत्साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे॑वस्य पी॒योः॥
ए॒व । ते॒ । इ॒न्द्र॒ । उ॒चथ॑म् । अ॒हे॒म॒ । श्र॒व॒स्या । न । त्मना॑ । वा॒जय॑न्तः । अ॒श्याम॑ । तत् । साप्त॑म् । आ॒शु॒षा॒णाः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥
Mantra 8
ए॒वा ते॑ गृत्सम॒दाः शू॑र॒ मन्मा॑व॒स्यवो॒ न व॒युना॑नि तक्षुः। ब्र॒ह्म॒ण्यन्त॑ इन्द्र ते॒ नवी॑य॒ इष॒मूर्जं॑ सुक्षि॒तिं सु॒म्नम॑श्युः॥
ए॒व । ते॒ । गृ॒त्स॒ऽम॒दाः । शू॒र॒ । मन्म॑ । अ॒व॒स्यवः॑ । न । व॒युना॑नि । त॒क्षुः॒ । ब्र॒ह्म॒ण्यन्तः॑ । इ॒न्द्र॒ । ते॒ । नवी॑यः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । सु॒म्नम् । अ॒श्युः॒ ॥
Mantra 9
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑। शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ । शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥