Mantra 1
श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्यः॒ स्याम॑ ते दा॒वने॒ वसू॑नाम्। इ॒मा हि त्वामूर्जो॑ व॒र्धय॑न्ति वसू॒यवः॒ सिन्ध॑वो॒ न क्षर॑न्तः॥
श्रु॒धि । हव॑म् । इ॒न्द्र॒ । मा । रि॒ष॒ण्यः॒ । स्याम॑ । ते॒ । दा॒वने॑ । वसू॑नाम् । इ॒माः । हि । त्वाम् । ऊर्जः॑ । व॒र्धय॑न्ति । व॒सु॒ऽयवः॑ । सिन्ध॑वः । न । क्षर॑न्तः ॥
Mantra 2
सृ॒जो म॒हीरि॑न्द्र॒ या अपि॑न्वः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः। अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा॑भिनदु॒क्थैर्वा॑वृधा॒नः॥
सृ॒जः । म॒हीः । इ॒न्द्र॒ । याः । अपि॑न्वः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः । अम॑र्त्यम् । चि॒त् । दा॒सम् । मन्य॑मानम् । अव॑ । अ॒भि॒न॒त् । उ॒क्थैः । व॒वृ॒धा॒नः ॥
Mantra 3
उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्स्तोमे॑ष्विन्द्र रु॒द्रिये॑षु च। तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः॥
उ॒क्थेषु॑ । इत् । नु । शू॒र॒ । येषु॑ । चा॒कन् । स्तोमे॑षु । इ॒न्द्र॒ । रु॒द्रिये॑षु । च॒ । तुभ्य॑ । इत् । ए॒ताः । यासु॑ । म॒न्द॒सा॒नः । प्र । वा॒यवे॑ । सि॒स्र॒ते॒ । न । शु॒भ्राः ॥
Mantra 4
शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः। शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विशः॒ सूर्ये॑ण सह्याः॥
शु॒भ्रम् । नु । ते॒ । शुष्म॑म् । व॒र्धय॑न्तः । शु॒भ्रम् । वज्र॑म् । बा॒ह्वोः । दधा॑नाः । शु॒भ्रः । त्वम् । इ॒न्द्र॒ । व॒वृ॒धा॒नः । अ॒स्मे इति॑ । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ ॥
Mantra 5
गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यन्त॑म्। उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण॥
गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्सु । अपि॑ऽवृतम् । मा॒यिन॑म् । क्षि॒यन्त॑म् । उ॒तो इति॑ । अ॒पः । द्याम् । त॒स्त॒भ्वांस॑म् । अह॑न् । अहि॑म् । शू॒र॒ । वी॒र्ये॑ण ॥
Mantra 6
स्तवा॒ नु त॑ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑। स्तवा॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू॥
स्तव॑ । नु । ते॒ । इ॒न्द्र॒ । पू॒र्व्या । म॒हानि॑ । उ॒त । स्त॒वा॒म॒ । नूत॑ना । कृ॒तानि॑ । स्तव॑ । वज्र॑म् । बा॒ह्वोः । उ॒शन्त॑म् । स्तव॑ । हरी॒ इति॑ । सूर्य॑स्य । के॒तू इति॑ ॥
Mantra 7
हरी॒ नु त॑ इन्द्र वा॒जय॑न्ता घृत॒श्चुतं॑ स्वा॒रम॑स्वार्ष्टाम्। वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं॑स्त॒ पर्व॑तश्चित्सरि॒ष्यन्॥
हरी॒ इति॑ । नु । ते॒ । इ॒न्द्र॒ । वा॒जय॑न्ता । घृ॒त॒ऽश्चुत॑म् । स्वा॒रम् । अ॒स्वा॒र्ष्टा॒म् । वि । स॒म॒ना । भूमिः॑ । अ॒प्र॒थि॒ष्ट । अरं॑स्त । पर्व॑तः । चि॒त् । स॒रि॒ष्यन् ॥
Mantra 8
नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न्त्सं मा॒तृभि॑र्वावशा॒नो अ॑क्रान्। दू॒रे पा॒रे वाणीं॑ व॒र्धय॑न्त॒ इन्द्रे॑षितां ध॒मनिं॑ पप्रथ॒न्नि॥
नि । पर्व॑तः । सा॒दि॒ । अप्र॑ऽयुच्छन् । सम् । मा॒तृऽभिः॑ । वा॒व॒शा॒नः । अ॒क्रा॒न् । दू॒रे । पा॒रे । वाणी॑म् । व॒र्धय॑न्तः । इन्द्र॑ऽइषिताम् । ध॒मनि॑म् । प॒प्र॒थ॒न् । नि ॥
Mantra 9
इन्द्रो॑ म॒हां सिन्धु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः। अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त्॥
इन्द्रः॑ । म॒हाम् । सिन्धु॑म् । आ॒ऽशया॑नम् । मा॒या॒ऽविन॑म् । वृ॒त्रम् । अ॒स्फु॒र॒त् । निः । अरे॑जेताम् । रोद॑सी॒ इति॑ । भि॒या॒ने इति॑ । कनि॑क्रदतः । वृष्णः॑ । अ॒स्य॒ । वज्रा॑त् ॥
Mantra 10
अरो॑रवी॒द्वृष्णो॑ अस्य॒ वज्रोऽमा॑नुषं॒ यन्मानु॑षो नि॒जूर्वा॑त्। नि मा॒यिनो॑ दान॒वस्य॑ मा॒या अपा॑दयत्पपि॒वान्त्सु॒तस्य॑॥
अरो॑रवीत् । वृष्णः॑ । अ॒स्य॒ । वज्रः॑ । अमा॑नुषम् । यत् । मानु॑षः । नि॒ऽजूर्वा॑त् । नि । मा॒यिनः॑ । दा॒न॒वस्य॑ । मा॒याः । अपा॑दयत् । प॒पि॒ऽवान् । सु॒तस्य॑ ॥
Mantra 11
पिबा॑पि॒बेदि॑न्द्र शूर॒ सोमं॒ मन्द॑न्तु त्वा म॒न्दिनः॑ सु॒तासः॑। पृ॒णन्त॑स्ते कु॒क्षी व॑र्धयन्त्वि॒त्था सु॒तः पौ॒र इन्द्र॑माव॥
पिब॑ऽपिब । इत् । इ॒न्द्र॒ । शू॒र॒ । सोम॑म् । मन्द॑न्तु । त्वा । म॒न्दिनः॑ । सु॒तासः॑ । पृ॒णन्तः॑ । ते॒ । कु॒क्षी इति॑ । व॒र्ध॒य॒न्तु॒ । इ॒त्था । सु॒तः । पौ॒रः । इन्द्र॑म् । आ॒व॒ ॥
Mantra 12
त्वे इ॒न्द्राप्य॑भूम॒ विप्रा॒ धियं॑ वनेम ऋत॒या सप॑न्तः। अ॒व॒स्यवो॑ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते॑ रा॒यो दा॒वने॑ स्याम॥
त्वे इति॑ । इ॒न्द्र॒ । अपि॑ । अ॒भू॒म॒ । विप्राः॑ । धिय॑म् । व॒ने॒म॒ । ऋ॒त॒ऽया । सप॑न्तः । अ॒व॒स्यवः॑ । धी॒म॒हि॒ । प्रऽश॑स्तिम् । स॒द्यः । ते॒ । रा॒यः । दा॒वने॑ । स्या॒म॒ ॥
Mantra 13
स्याम॒ ते त॑ इन्द्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं॑ व॒र्धय॑न्तः। शु॒ष्मिन्त॑मं॒ यं चा॒कना॑म देवा॒स्मे र॒यिं रा॑सि वी॒रव॑न्तम्॥
स्याम॑ । ते । ते॒ । इ॒न्द्र॒ । ये । ते॒ । ऊ॒ती । अ॒व॒स्यवः॑ । ऊर्ज॑म् । व॒र्धय॑न्तः । शु॒ष्मिन्ऽत॑मम् । यम् । चा॒कना॑म । दे॒व॒ । अ॒स्मे इति॑ । र॒यिम् । रा॒सि॒ । वी॒रऽव॑न्तम् ॥
Mantra 14
रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः। स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यवः॑ पा॒न्त्यग्र॑णीतिम्॥
रासि॑ । क्षय॑म् । रासि॑ । मि॒त्रम् । अ॒स्मे इति॑ । रासि॑ । शर्धः॑ । इ॒न्द्र॒ । मारु॑तम् । नः॒ । स॒ऽजोष॑सः । ये । च॒ । म॒न्द॒सा॒नाः । प्र । वा॒यवः॑ । पा॒न्ति॒ । अग्र॑ऽनीतिम् ॥
Mantra 15
व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत्सोमं॑ पाहि द्र॒ह्यदि॑न्द्र। अ॒स्मान्त्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः॥
व्यन्तु॑ । इत् । नु । येषु॑ । म॒न्द॒सा॒नः । तृ॒पत् । सोम॑म् । पा॒हि॒ । द्र॒ह्यत् । इ॒न्द्र॒ । अ॒स्मान् । सु । पृ॒त्ऽसु । आ । त॒रु॒त्र॒ । अव॑र्धयः । द्याम् । बृ॒हत्ऽभिः॑ । अ॒र्कैः ॥
Mantra 16
बृ॒हन्त॒ इन्नु ये ते॑ तरुत्रो॒क्थेभि॑र्वा सु॒म्नमा॒विवा॑सान्। स्तृ॒णा॒नासो॑ ब॒र्हिः प॒स्त्या॑व॒त्त्वोता॒ इदि॑न्द्र॒ वाज॑मग्मन्॥
बृ॒हन्तः॑ । इत् । नु । ये । ते॒ । त॒रु॒त्र॒ । उ॒क्थेभिः॑ । वा॒ । सु॒म्नम् । आ॒ऽविवा॑सान् । स्तृ॒णा॒नासः॑ । ब॒र्हिः । प॒स्त्य॑ऽवत् । त्वाऽऊ॑ताः । इत् । इ॒न्द्र॒ । वाज॑म् । अ॒ग्म॒न् ॥
Mantra 17
उ॒ग्रेष्विन्नु शू॑र मन्दसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिन्द्र। प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिम्॥
उ॒ग्रेषु॑ । इत् । नु । शू॒र॒ । म॒न्द॒सा॒नः । त्रिऽक॑द्रुकेषु । पा॒हि॒ । सोम॑म् । इ॒न्द्र॒ । प्र॒ऽदोधु॑वत् । श्मश्रु॑षु । प्री॒णा॒नः । या॒हि । हरि॑ऽभ्याम् । सु॒तस्य॑ । पी॒तिम् ॥
Mantra 18
धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम्। अपा॑वृणो॒र्ज्योति॒रार्या॑य॒ नि स॑व्य॒तः सा॑दि॒ दस्यु॑रिन्द्र॥
धि॒ष्व । शवः॑ । शू॒र॒ । येन॑ । वृ॒त्रम् । अ॒व॒ऽअभि॑नत् । दानु॑म् । औ॒र्ण॒ऽवा॒भम् । अप॑ । अ॒वृ॒णोः॒ । ज्योतिः॑ । आर्या॑य । नि । स॒व्य॒तः । सा॒दि॒ । दस्युः॑ । इ॒न्द्र॒ ॥
Mantra 19
सने॑म॒ ये त॑ ऊ॒तिभि॒स्तर॑न्तो॒ विश्वाः॒ स्पृध॒ आर्ये॑ण॒ दस्यू॑न्। अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू॑प॒मर॑न्धयः सा॒ख्यस्य॑ त्रि॒ताय॑॥
सने॑म । ये । ते॒ । ऊ॒तिऽभिः॑ । तर॑न्तः । विश्वाः॑ । स्पृधः॑ । आर्ये॑ण । दस्यू॑न् । अ॒स्मभ्य॑म् । तत् । त्वा॒ष्ट्रम् । वि॒श्वऽरू॑पम् । अर॑न्धयः । सा॒ख्यस्य॑ । त्रि॒ताय॑ ॥
Mantra 20
अ॒स्य सु॑वा॒नस्य॑ म॒न्दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः। अव॑र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्ब॒लमिन्द्रो॒ अङ्गि॑रस्वान्॥
अ॒स्य । सु॒वा॒नस्य॑ । म॒न्दिनः॑ । त्रि॒तस्य॑ । नि । अर्बु॑दम् । व॒वृ॒धा॒नः । अ॒स्त॒रित्य॑स्तः । अव॑र्तयत् । सूर्यः॑ । न । च॒क्रम् । भि॒नत् । व॒लम् । इन्द्रः॑ । अङ्गि॑रस्वान् ॥
Mantra 21
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑। शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । जरि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ । शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥