Mantra with Swara
उ॒त्ता॒नाया॑मजनय॒न्त्सुषू॑तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा॑सु॒ गर्भः॑। शिरि॑णायां चिद॒क्तुना॒ महो॑भि॒रप॑रीवृतो वसति॒ प्रचे॑ताः॥
उ॒त्ता॒नाया॑म् । अ॒ज॒न॒य॒न् । सुऽसू॑तम् । भुव॑त् । अ॒ग्निः । पु॒रु॒ऽपेशा॑सु । गर्भः॑ । शिरि॑णायाम् । चि॒त् । अ॒क्तुना॑ । महः॑ऽभिः । अप॑रिऽवृतः । व॒स॒ति॒ । प्रऽचे॑ताः ॥
Mantra without Swara
उत्तानायामजनयन्त्सुषूतं भुवदग्निः पुरुपेशासु गर्भः। शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः॥
उत्तानायाम्। अजनयन्। सुऽसूतम्। भुवत्। अग्निः। पुरुऽपेशासु। गर्भः। शिरिणायाम्। चित्। अक्तुना। महःऽभिः। अपरिऽवृतः। वसति। प्रऽचेताः॥
Ashtak » 2
Adhyay » 6
Varga » 2
Mantra » 3
