Mantra 1
द्वे विरू॑पे चरत॒: स्वर्थे॑ अ॒न्यान्या॑ व॒त्समुप॑ धापयेते। हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चा॑: ॥
द्वे । विरू॑पे॒ इति॒ विऽरू॑पे । च॒र॒तः॒ । स्वर्थे॒ इति॑ सु॒ऽअर्थे॑ । अ॒न्याऽअ॑न्या । व॒त्सम् । उप॑ । धा॒प॒ये॒ते॒ इति॑ । हरिः॑ । अ॒न्यस्या॑म् । भव॑ति । स्व॒धाऽवा॑न् । शु॒क्रः । अ॒न्यस्या॑म् । द॒दृ॒शे॒ । सु॒ऽवर्चाः॑ ॥
Mantra 2
दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ॒मत॑न्द्रासो युव॒तयो॒ विभृ॑त्रम्। ति॒ग्मानी॑कं॒ स्वय॑शसं॒ जने॑षु वि॒रोच॑मानं॒ परि॑ षीं नयन्ति ॥
दश॑ । इ॒मम् । त्वष्टुः॑ । ज॒न॒य॒न्त॒ । गर्भ॑म् । अत॑न्द्रासः । यु॒व॒तयः॑ । विऽभृ॑त्रम् । ति॒ग्मऽअ॑नी॑कम् । स्वऽय॑शसम् । जने॑षु । वि॒ऽरोच॑मानम् । परि॑ । सी॒म् । न॒य॒न्ति॒ ॥
Mantra 3
त्रीणि॒ जाना॒ परि॑ भूषन्त्यस्य समु॒द्र एकं॑ दि॒व्येक॑म॒प्सु। पूर्वा॒मनु॒ प्र दिशं॒ पार्थि॑वानामृ॒तून्प्र॒शास॒द्वि द॑धावनु॒ष्ठु ॥
त्रीणि॑ । जाना॑ । परि॑ । भू॒ष॒न्ति॒ । अ॒स्य॒ । स॒मु॒द्रे । एक॑म् । दि॒वि । एक॑म् । अ॒प्ऽसु । पूर्वा॑म् । अनु॑ । प्र । दिश॑म् । पार्थि॑वानाम् । ऋ॒तून् । प्र॒ऽशास॑त् । वि । द॒धौ॒ । अ॒नु॒ष्ठु ॥
Mantra 4
क इ॒मं वो॑ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभि॑:। ब॒ह्वी॒नां गर्भो॑ अ॒पसा॑मु॒पस्था॑न्म॒हान्क॒विर्निश्च॑रति स्व॒धावा॑न् ॥
कः । इ॒मम् । वः॒ । नि॒ण्यम् । आ । चि॒के॒त॒ । व॒त्सः । मा॒तॄः । ज॒न॒य॒त॒ । स्व॒ऽधाभिः॑ । ब॒ह्वी॒नाम् । गर्भः॑ । अ॒पसा॑म् । उ॒पऽस्था॑त् । म॒हान् । क॒विः । निः । च॒र॒ति॒ । स्व॒धाऽवा॑न् ॥
Mantra 5
आ॒विष्ट्यो॑ वर्धते॒ चारु॑रासु जि॒ह्माना॑मू॒र्ध्वः स्वय॑शा उ॒पस्थे॑। उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ॥
आ॒विःऽत्यः॑ । व॒र्ध॒ते॒ । चारुः॑ । आ॒सु॒ । जि॒ह्माना॑म् । ऊ॒र्ध्वः । स्वऽय॑शाः । उ॒पऽस्थे॑ । उ॒भे इति॑ । त्वष्टुः॑ । बि॒भ्य॒तुः॒ । जाय॑मानात् । प्र॒ती॒ची इति॑ । सिं॒हम् । प्रति॑ । जो॒ष॒ये॒ते॒ इति॑ ॥
Mantra 6
उ॒भे भ॒द्रे जो॑षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप॑ तस्थु॒रेवै॑:। स दक्षा॑णां॒ दक्ष॑पतिर्बभूवा॒ञ्जन्ति॒ यं द॑क्षिण॒तो ह॒विर्भि॑: ॥
उ॒भे इति॑ । भ॒द्रे इति॑ । जो॒ष॒ये॒ते॒ इति॑ । न । मेने॑ । गावः॑ । न । वा॒श्राः । उप॑ । त॒स्थुः॒ । एवैः॑ । सः । दक्षा॑णाम् । दक्ष॑ऽपतिः । ब॒भू॒व॒ । अ॒ञ्जन्ति॑ । यम् । द॒क्षि॒ण॒तः । ह॒विःऽभिः॑ ॥
Mantra 7
उद्यं॑यमीति सवि॒तेव॑ बा॒हू उ॒भे सिचौ॑ यतते भी॒म ऋ॒ञ्जन्। उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा॑ मा॒तृभ्यो॒ वस॑ना जहाति ॥
उत् । यं॒य॒मी॒ति॒ । स॒वि॒ताऽइ॑व । बा॒हू इति॑ । उ॒भे इति॑ । सिचौ॑ । य॒त॒ते॒ । भी॒मः । ऋ॒ञ्जन् । उत् । शु॒क्रम् । अत्क॑म् । अ॒ज॒ते॒ । सि॒मस्मा॑त् । नवा॑ । मा॒तृऽभ्यः॒ । वस॑ना । ज॒हा॒ति॒ ॥
Mantra 8
त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्स॑म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः। क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥
त्वे॒षम् । रू॒पम् । कृ॒णुते॒ । उत्ऽत॑रम् । यत् । स॒म्ऽपृ॒ञ्चा॒नः । सद॑ने॒ । गोऽभिः॑ । अ॒त्ऽभिः । क॒विः । बु॒ध्नम् । परि॑ । म॒र्मृ॒ज्य॒ते॒ । धीः । सा । दे॒वता॑ता । सम्ऽइ॑तिः । ब॒भू॒व॒ ॥
Mantra 9
उ॒रु ते॒ ज्रय॒: पर्ये॑ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑। विश्वे॑भिरग्ने॒ स्वय॑शोभिरि॒द्धोऽद॑ब्धेभिः पा॒युभि॑: पाह्य॒स्मान् ॥
उ॒रु । ते॒ । ज्रयः॑ । परि॑ । ए॒ति॒ । बु॒ध्नम् । वि॒ऽरोच॑मानम् । म॒हि॒षस्य॑ । धाम॑ । विश्वे॑भिः । अ॒ग्ने॒ । स्वय॑शःऽभिः । इ॒द्धः । अद॑ब्धेभिः । पा॒युऽभिः॑ । पा॒हि॒ । अ॒स्मान् ॥
Mantra 10
धन्व॒न्त्स्रोत॑: कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम्। विश्वा॒ सना॑नि ज॒ठरे॑षु धत्ते॒ऽन्तर्नवा॑सु चरति प्र॒सूषु॑ ॥
धन्व॑न् । स्रोतः॑ । कृ॒णु॒ते॒ । ग॒तुम् । ऊ॒र्मिम् । शु॒क्रैः । ऊ॒र्मिऽभिः॑ । अ॒भि । न॒क्ष॒ति॒ । क्षाम् । विश्वा॑ । सना॑नि । ज॒ठरे॑षु । ध॒त्ते॒ । अ॒न्तः । नवा॑सु । च॒र॒ति॒ । प्र॒ऽसूषु॑ ॥
Mantra 11
ए॒वा नो॑ अग्ने स॒मिधा॑ वृधा॒नो रे॒वत्पा॑वक॒ श्रव॑से॒ वि भा॑हि। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
ए॒व । नः॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वृ॒धा॒नः । रे॒वत् । पा॒व॒क॒ । श्रव॑से । वि । भा॒हि॒ । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥