Mantra 1
अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म्। प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मय॑: ॥
अग्नी॑षोमौ । इ॒मम् । सु । मे॒ । शृ॒णु॒तम् । वृ॒ष॒णा॒ । हव॑म् । प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒त॒म् । भव॑तम् । दा॒शुषे॑ । मयः॑ ॥
Mantra 2
अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वच॑: सप॒र्यति॑। तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ॥
अग्नी॑षोमा । यः । अ॒द्य । वा॒म् । इ॒दम् । वचः॑ । स॒प॒र्यति॑ । तस्मै॑ । ध॒त्त॒म् । सु॒ऽवीर्य॑म् । गवा॑म् । पोष॑म् । सु॒ऽअश्व्य॑म् ॥
Mantra 3
अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिम्। स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥
अग्नी॑षोमा । यः । आहु॑तिम् । यः । वा॒म् । दासा॑त् । ह॒विःऽकृ॑तिम् । सः । प्र॒ऽजया॑ । सु॒ऽवीर्य॑म् । विश्व॑म् । आयुः॑ । वि । अ॒श्न॒व॒त् ॥
Mantra 4
अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः। अवा॑तिरतं॒ बृस॑यस्य॒ शेषोऽवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्य॑: ॥
अग्नी॑षोमा । चेति॑ । तत् । वी॒र्य॑म् । वा॒म् । यत् । अमु॑ष्णीतम् । अ॒व॒सम् । प॒णिम् । गाः । अव॑ । अ॒ति॒र॒त॒म् । बृस॑यस्य । शेषः॑ । अवि॑न्दतम् । ज्योतिः॑ । एक॑म् । ब॒हुऽभ्यः॑ ॥
Mantra 5
यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम्। यु॒वं सिन्धूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥
यु॒वम् । ए॒तानि॑ । दि॒वि । रो॒च॒नानि॑ । अ॒ग्निः । च॒ । सो॒म॒ । सक्र॑तू॒ इति॒ सऽक्र॑तू । अ॒ध॒त्त॒म् । यु॒वम् । सिन्धू॑न् । अ॒भिऽश॑स्तेः । अ॒व॒द्यात् । अग्नी॑षोमौ । अमु॑ञ्चतम् । गृ॒भी॒तान् ॥
Mantra 6
आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रे॑:। अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥
आ । अ॒न्यम् । दि॒वः । मा॒त॒रिश्वा॑ । ज॒भा॒र॒ । अम॑थ्नात् । अ॒न्यम् । परि॑ । श्ये॒नः । अद्रेः॑ । अग्नी॑षोमा । ब्रह्म॑णा । व॒वृ॒धा॒ना । उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊँ॒ इति॑ । लो॒कम् ॥
Mantra 7
अग्नी॑षोमा ह॒विष॒: प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा॑म्। सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥
अग्नी॑षोमा । ह॒विषः॑ । प्रऽस्थि॑तस्य । वी॒तम् । हर्य॑तम् । वृ॒ष॒णा॒ । जु॒षेथा॑म् । सु॒ऽशर्मा॑णा । सु॒ऽअव॑सा । हि । भू॒तम् । अथ॑ । ध॒त्त॒म् । यज॑मानाय । शम् । योः ॥
Mantra 8
यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद्दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑। तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥
यः । अ॒ग्नीषोमा॑ । ह॒विषा॑ । स॒प॒र्यात् । दे॒व॒द्रीचा॑ । मन॑सा । यः । घृ॒तेन॑ । तस्य॑ । व्र॒तम् । र॒क्ष॒त॒म् । पा॒तम् । अंह॑सः । वि॒शे । जना॑य । महि॑ । शर्म॑ । य॒च्छ॒त॒म् ॥
Mantra 9
अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिर॑:। सं दे॑व॒त्रा ब॑भूवथुः ॥
अग्नी॑षोमा । सऽवे॑दसा । सहू॑ती॒ इति॒ सऽहू॑ती । व॒न॒त॒म् । गिरः॑ । सम् । दे॒व॒ऽत्रा । ब॒भू॒व॒थुः॒ ॥
Mantra 10
अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति। तस्मै॑ दीदयतं बृ॒हत् ॥
अग्नी॑षोमौ । अ॒नेन॑ । वा॒म् । यः । वा॒म् । घृ॒तेन॑ । दाश॑ति । तस्मै॑ । दी॒द॒य॒त॒म् । बृ॒हत् ॥
Mantra 11
अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम्। आ या॑त॒मुप॑ न॒: सचा॑ ॥
अग्नी॑षोमौ । इ॒मानि॑ । नः॒ । यु॒वम् । ह॒व्या । जु॒जो॒ष॒त॒म् । आ । या॒त॒म् । उप॑ । नः॒ । सचा॑ ॥
Mantra 12
अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यन्तामु॒स्रिया॑ हव्य॒सूद॑:। अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मन्त॑म् ॥
अग्नी॑षोमा । पि॒पृ॒तम् । अर्व॑तः । नः॒ । आ । प्या॒य॒न्ता॒म् । उ॒स्रियाः॑ । ह॒व्य॒ऽसू॒दः॑ । अ॒स्मे इति॑ । बला॑नि । म॒घव॑त्ऽसु । ध॒त्त॒म् । कृ॒णु॒तम् । नः॒ । अ॒ध्व॒रम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥