Mantra 1
ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान्। अ॒र्य॒मा दे॒वैः स॒जोषाः॑ ॥
ऋ॒जु॒ऽनी॒ती । नः॒ । वरु॑णः । मि॒त्रः । न॒य॒तु॒ । वि॒द्वान् । अ॒र्य॒मा । दे॒वैः । स॒ऽजोषाः॑ ॥
Mantra 2
ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः। व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥
ते । हि । वस्वः॑ । वस॑वानाः । ते । अप्र॑ऽमूराः । महः॑ऽभिः । व्र॒ता । र॒क्ष॒न्ते॒ । वि॒श्वाहा॑ ॥
Mantra 3
ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः। बाध॑माना॒ अप॒ द्विषः॑ ॥
ते । अ॒स्मभ्यम् । शर्म॑ । यं॒स॒न् । अ॒मृताः॑ । मर्त्ये॑भ्यः । बाध॑मानाः । अप॑ । द्विषः॑ ॥
Mantra 4
वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुतः॑। पू॒षा भगो॒ वन्द्या॑सः ॥
वि । नः॒ । प॒थः । सु॒वि॒ताय॑ । चि॒यन्तु॑ । इन्द्रः॑ । म॒रुतः॑ । पू॒षा । भगः॑ । वन्द्या॑सः ॥
Mantra 5
उ॒त नो॒ धियो॒ गोअ॑ग्राः॒ पूष॒न्विष्ण॒वेव॑यावः। कर्ता॑ नः स्वस्ति॒मतः॑ ॥
उ॒त । नः॒ । धियः॑ । गोऽअ॑ग्राः । पूष॑न् । विष्णो॒ उति॑ । एव॑ऽयावः । कर्त॑ । नः॒ । स्व॒स्ति॒ऽमतः॑ ॥
Mantra 6
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः। माध्वी॑र्नः स॒न्त्वोष॑धीः ॥
मधु॑ । वाताः॑ । ऋ॒त॒य॒ते । मधु॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । माध्वीः॑ । नः॒ । स॒न्तु॒ । ओष॑धीः ॥
Mantra 7
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑। मधु॒ द्यौर॑स्तु नः पि॒ता ॥
मधु॑ । नक्त॑म् । उ॒त । उ॒षसः॑ । मधु॑ऽमत् । पार्थि॑वम् । रजः॑ । मधु॑ । द्यौः । अ॒स्तु॒ । नः॒ । पि॒ता ॥
Mantra 8
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑। माध्वी॒र्गावो॑ भवन्तु नः ॥
मधु॑ऽमान् । नः॒ । वन॒स्पतिः॑ । मधु॑ऽमान् । अ॒स्तु॒ । सूर्यः॑ । माध्वीः॑ । गावः॑ । भ॒व॒न्तु॒ । नः॒ ॥
Mantra 9
शं नो॑ मि॒त्रः शं वरु॑णः॒ शं नो॑ भवत्वर्य॒मा। शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ॥
शम् । नः॒ । मि॒त्रः । शम् । वरु॑णः॒ । शम् । नः॒ । भ॒व॒तु॒ । अ॒र्य॒मा । शम् । नः॒ । इन्द्रः॑ । बृह॒स्पतिः॑ । शम् । नः॒ । विष्णुः॑ । उ॒रु॒ऽक्र॒मः ॥