Mantra with Swara
पि॒तुः प्र॒त्नस्य॒ जन्म॑ना वदामसि॒ सोम॑स्य जि॒ह्वा प्र जि॑गाति॒ चक्ष॑सा। यदी॒मिन्द्रं॒ शम्यृक्वा॑ण॒ आश॒तादिन्नामा॑नि य॒ज्ञिया॑नि दधिरे ॥
पि॒तुः । प्र॒त्नस्य॑ । जन्म॑ना । व॒दा॒म॒सि॒ । सोम॑स्य । जि॒ह्वा । प्र । जि॒गा॒ति॒ । चक्ष॑सा । यत् । ई॒म् । इन्द्र॑म् । शमि॑ । ऋक्वा॑णः । आश॑त । आत् । इत् । नामा॑नि । य॒ज्ञिया॑नि । द॒धि॒रे॒ ॥
Mantra without Swara
पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा। यदीमिन्द्रं शम्यृक्वाण आशतादिन्नामानि यज्ञियानि दधिरे ॥
पितुः। प्रत्नस्य। जन्मना। वदामसि। सोमस्य। जिह्वा। प्र। जिगाति। चक्षसा। यत्। ईम्। इन्द्रम्। शमि। ऋक्वाणः। आशत। आत्। इत्। नामानि। यज्ञियानि। दधिरे ॥
Ashtak » 1
Adhyay » 6
Varga » 13
Mantra » 5
